भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम् । भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा ॥ १,२०१.
त्रिफलापञ्चकोले च दशमूलं विडङ्गकम् । शतावरीगुडूची च निम्बवासककिंशुकाः ॥ १,२०१.
गजरोगविनाशाय हितो रूक्षः कषायकः । आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः ॥ १,२०१.
श्रीगरुडमहापुराणम् २०२ हरिरुवाच । एकं पुनर्नवामूलमपामार्गस्य वा शिव । सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत् । प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत् ॥ १,२०२.
भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा । सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम् ॥ १,२०२.
रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना । नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका ॥ १,२०२.
भक्षिता सा महेशान योनिशूलं विनाशयेत् । प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ॥ १,२०२.
योनिः प्रवेशमायाति नात्र कार्या विचारणा । नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥ १,२०२.
पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत् । पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा ॥ १,२०२.
पापरोगहरं स्याच्च कुष्ठपानं तथैव च । वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ॥ १,२०२.
पापरोगस्य सन्तापनिवृक्तिं कुरुते शिव । घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह ॥ १,२०२.
प्रदरं हरते रोगं नात्र कार्या विचारणा । द्विजयष्टी त्रिकटुकं चूर्णं पीतं हरेच्छिव ॥ १,२०२.
तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर । कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ॥ १,२०२.
रक्तोत्पलस्य वै कन्दंशर्करातिलसंयुतम् । पीतं सशर्करं स्त्रीणां धारयेद्गर्भपातनम् ॥ १,२०२.
रक्तस्त्रावस्य नाशः स्याच्छीतोदकनिषेवणात् । पीतन्तु काञ्जिक रुद्र क्वथितं शरपुङ्खया ॥ १,२०२.
हिङ्गुस्त्रैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् । मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ॥ १,२०२.
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः । उत्पाट्यमाने सकले पुत्त्रः स्यादान्यथा सुता ॥ १,२०२.
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते । गर्भशूलं विनश्येत नात्र कार्या विचारणा ॥ १,२०२.
कर्पूरमदनफलमधुकैः पूरितः शिव । योनिः सुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ॥ १,२०२.
यस्य बालस्य तिलकः कृतो गौरोचनाख्यया । शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः । विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ॥ १,२०२.
शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा । बालानामुपसर्गेभ्यो रुद्र रक्षाकरं भवेत् ॥ १,२०२.
पलाशचूर्णं समधु गव्याज्यामलकान्वितम् । सविडङ्गं पीतमात्रं नरं कुर्यान्महामतिम् ॥ १,२०२.
मासैकेन महादेव जरामरणवर्जितः ॥ १,२०२.
पलाशबीजं सघृतं तिलमध्वन्वितं समम् । सप्ताहं भक्षितं रुद्र जरां नयति संक्षयम् ॥ १,२०२.
रुद्रामलकचूर्णं वै मधुतैल घृतान्वितम् । जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेत् ॥ १,२०२.
शिवामलकचूर्णं वै मधुना उदकेन वा । बलानि कुर्यान्नासायाः प्रत्यूषे भक्षितं शिव ॥ १,२०२.
कुष्ठचूर्णं साज्यमधु प्रातर्जग्ध्वा भवेन्नरः । साक्षात्सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥ १,२०२.
माषस्य विदलान्ये वितुषाणि महेश्वर । घृतभावितशुष्काणि पयसा साधितानि वै ॥ १,२०२.
समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् । स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥ १,२०२.
रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् । त्रिकालोदकसंघुष्टो बलकृद्भक्षणाद्भवेत् ॥ १,२०२.