अधमेऽष्टपलानि स्युर्मध्यमे स्युश्चतुर्दश । शरन्निदाघयोर्नैवदेयं नैव तु दापयेत् ॥ १,२०१.
तैलेन वातिके रोगे शर्कराज्यपयोन्वितैः । कटुतैलैः कफे व्योषैः पित्ते चत्रिफलाम्बुभिः ॥ १,२०१.
शालिषष्टिकदुग्धाशी हयो हिन जुगुप्सितः । पक्वजम्बूनिभो हेमवर्णोऽश्वो न जुगुप्सितः ॥ १,२०१.
अर्धप्रहरणे धुर्ये गुग्गुलुं प्राशयेद्धयम् । भोजयेत्पायसं दुग्धं सत्वरं सुस्थिरो हयः ॥ १,२०१.
विकारे भोजने दुग्धं शाल्यन्नं वातले ददेत् । कर्षमांसरसैः पित्ते मधुमुद्गरसाज्यकैः ॥ १,२०१.
कफे मुद्गान्कुलत्थान्वा कटुतिक्तान्कफे हये । बाधिर्ये व्याधिते ग्रासे त्रिदोषादौ तु गुग्गुलुः ॥ १,२०१.
घासैर्दूर्वा सर्वरोगे प्रथमेऽह्नि पलं ददेत् । विवर्धयेत्ततः कर्षमेकाह्नि पलपञ्चकम् ॥ १,२०१.
पाने च भोजने चैव अशीतिपलकं परम् । मध्ये षष्टिश्चाधमेषु चत्वारिंशच्च भोगिषु ॥ १,२०१.
व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् । मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजितम् ॥ १,२०१.
वातपित्ते व्रणे व्याधौ गोक्षीरं घृतसंयुतम् । देयं कृशानां पुष्ट्यर्थं मांसैर्युक्तं च भोजनम् ॥ १,२०१.
सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम् । प्रभाते घृतसंयुक्तं शरद्गीष्मे च वाजिनाम् ॥ १,२०१.
रोगघ्नं पुष्टिदं चापि बलतेजोविवर्धनम् । तदेवाश्वायदातव्यं क्षीरयुक्तमथापि वा ॥ १,२०१.
गुडूचीकल्पयोगेन शतावर्यश्वगन्धयोः । चत्वारि त्रीणि मध्यस्य जघन्यस्य पलानि हि ॥ १,२०१.
अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् । म्रियते च यदा क्षिप्रमुपसर्गं तमादिशेत् ॥ १,२०१.
होमाद्यै रक्षया विप्रभोजनैर्बलिकर्मणा । शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥ १,२०१.
हरीतकी गवां मूत्रैस्तैलेन लवणान्विता । आदौ पञ्च ततः पञ्च वृद्ध्या पूर्णशतावधि । उत्तमा च शतं मात्रास्त्वशीतिः षष्टिरेव वा ॥ १,२०१.
गजायुर्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः । गजे चतुर्गुणा मात्रास्ताभिर्गजरुगर्दनः ॥ १,२०१.
गजो पसर्गव्याधीनां शमनं शान्तिकर्म च । पूजयित्वा सुरान्विप्रान्रत्नैर्गां कपिलां ददेत् ॥ १,२०१.
दन्तिदन्तद्वये मालां निबन्धीयादुपोषितः । मन्त्रेण मन्त्रितान्वैद्यैर्वचासिद्धार्थकांस्तथा ॥ १,२०१.
सूर्यादिशिवदुर्गाश्रीविष्ण्वर्चा रक्षयेद्गजम् । बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥ १,२०१.
भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम् । भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा ॥ १,२०१.
त्रिफलापञ्चकोले च दशमूलं विडङ्गकम् । शतावरीगुडूची च निम्बवासककिंशुकाः ॥ १,२०१.
गजरोगविनाशाय हितो रूक्षः कषायकः । आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः ॥ १,२०१.
श्रीगरुडमहापुराणम् २०२ हरिरुवाच । एकं पुनर्नवामूलमपामार्गस्य वा शिव । सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत् । प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत् ॥ १,२०२.
भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा । सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम् ॥ १,२०२.
रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना । नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका ॥ १,२०२.
भक्षिता सा महेशान योनिशूलं विनाशयेत् । प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ॥ १,२०२.
योनिः प्रवेशमायाति नात्र कार्या विचारणा । नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥ १,२०२.
पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत् । पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा ॥ १,२०२.
पापरोगहरं स्याच्च कुष्ठपानं तथैव च । वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ॥ १,२०२.