गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम् । गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥ १,१९९.
ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति । ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥ १,१९९.
ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च । ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥ १,१९९.
ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम् । ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥ १,१९९.
ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत् । ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥ १,१९९.
श्रीगरुडमहापुराणम् २०० भैरव उवाच । वक्ष्ये वायुजयं देवि जया जयविदेशकम् । वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥ १,२००.
वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् । ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥ १,२००.
महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः । कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥ १,२००.
वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः । उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥ १,२००.
वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् । संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥ १,२००.
यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः । स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु ॥ १,२००.
दक्षिणे च पुटे वायुर्हितो भोजनमैथुने । खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः ॥ १,२००.
वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम् । वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः ॥ १,२००.
माहेन्द्रे वारुणे वाते कोऽपि दोषो न जायते । अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके ॥ १,२००.
श्रीगरुडमहापुराणम् २०१ धन्वन्तरिरुवाच । हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् । काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः ॥ १,२०१.
करालो हीनदन्तश्च शृङ्गी विरलदन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ १,२०१.
मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः । यमजो वामनश्चैव मार्जारः कपिलोचनः ॥ १,२०१.
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः । मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः ॥ १,२०१.
असंहता ये च वाहा ह्रस्वकर्णास्तथैव च । शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः ॥ १,२०१.
रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात् । सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्? ॥ १,२०१.
तिलञ्चैव वचां हिगुं बध्नीयाद्वाजिनो गले । आगन्तुजं दोषजन्तु व्रणं द्विविधमीरितम् ॥ १,२०१.
चिरपाकं वातजन्तु श्लेष्मजं क्षिप्रपाककम्? । कण्ठदाहात्मकं पित्ताच्छोणितान्मन्दवेदनम् ॥ १,२०१.
आगन्तुजन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् । एरण्डमूलं द्विनिशं चित्रकं विश्वभेषजम् ॥ १,२०१.
रसोनं सैन्धवं वापि तक्रकाञ्जिकपोषितम् । तिलसक्तुकपिण्डिका दधियुक्ता ससैन्धवा । निम्बपत्रयुतं पिण्डं व्रणशोधनरोपणम् ॥ १,२०१.
पटोलं निम्बपत्रञ्च वचा चित्रकमेव च । पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १,२०१.
एतत्पानात्क्रिमिश्लेष्ममन्दानिलविनाशनम् । निम्बपत्रं पटो लञ्च त्रिफला खदिरं तथा ॥ १,२०१.
क्वाथयित्वा ततो वाहं सृतरक्तं विचक्षणः । त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्तये ॥ १,२०१.
सव्रणेषु च कुष्ठेषु तैलं सर्षपजं हितम् । लशुनादिकषायश्च पानभुक्त्युपशान्तये ॥ १,२०१.
मातुलुङ्गरसोपेतं मांसीनां रसकेन वा । सद्यो दद्यात्तत्र नस्यमन्यैर्वातैः सुसंयुतैः ॥ १,२०१.
पलद्वयं प्रथमेऽह्नि एकैकपलवृद्धितः । यावद्दिनानि पूर्णानि पलान्यष्टादशोत्तमे ॥ १,२०१.