वृषस्थाने स्थिते सिंहे सौभाग्यञ्च धनादिकम् । स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः ॥ १,१९९.
वृषस्थाने वृषं दृष्ट्वा कीर्तितुष्टिसुखादिकम् । वृषस्थाने खरं दृष्ट्वा महालाभादिकं भवेत् ॥ १,१९९.
वृषस्थाने गजं दृष्ट्वा स्त्रीगजादिसमागमः । वृषस्थाने स्थिते ध्वाङ्क्षे स्थानमानसमागमः ॥ १,१९९.
खरस्थाने ध्वजं दृष्ट्वा रोगशोकादिकं भवेत् । खरस्थाने स्थिते धूम्रे तस्करादिभयं भवेत् ॥ १,१९९.
खरस्थाने स्थिते सिंहे पूजाश्रीविजयादिकम् । स्थिते शुनिखरस्थाने सन्तापधननाशनम् ॥ १,१९९.
खरस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः । खरस्थाने खरं दृष्ट्वा दुः खीपीडादि निर्दिशेत् ॥ १,१९९.
खरस्थाने गजं दृष्ट्वा सुखपुत्त्रादिकं भवेत् । खरस्थाने स्थिते ध्वाङ्क्षे कलहो व्याधिरेव च ॥ १,१९९.
गजस्थाने ध्वजं दृष्ट्वा स्त्रीजयश्रीसुखादिकम् । गजस्थानेस्थिते धूम्रे धनधान्यसमागमः ॥ १,१९९.
गजस्थाने स्थिते सिंहे जयसिद्धिसमागमः । स्थिते शुनि गजस्थाने आरोग्यं सुखसम्पदः ॥ १,१९९.
गजस्थाने वृषं दृष्ट्वा राजमानधनादिकम् । गजस्थाने खरं दृष्ट्वा पूर्वं दुः खं ततः सुखम् ॥ १,१९९.
गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम् । गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥ १,१९९.
ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति । ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥ १,१९९.
ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च । ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥ १,१९९.
ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम् । ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥ १,१९९.
ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत् । ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥ १,१९९.
श्रीगरुडमहापुराणम् २०० भैरव उवाच । वक्ष्ये वायुजयं देवि जया जयविदेशकम् । वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥ १,२००.
वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् । ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥ १,२००.
महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः । कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥ १,२००.
वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः । उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥ १,२००.
वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् । संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥ १,२००.
यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः । स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु ॥ १,२००.
दक्षिणे च पुटे वायुर्हितो भोजनमैथुने । खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः ॥ १,२००.
वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम् । वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः ॥ १,२००.
माहेन्द्रे वारुणे वाते कोऽपि दोषो न जायते । अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके ॥ १,२००.
श्रीगरुडमहापुराणम् २०१ धन्वन्तरिरुवाच । हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् । काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः ॥ १,२०१.
करालो हीनदन्तश्च शृङ्गी विरलदन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ १,२०१.
मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः । यमजो वामनश्चैव मार्जारः कपिलोचनः ॥ १,२०१.
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः । मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः ॥ १,२०१.
असंहता ये च वाहा ह्रस्वकर्णास्तथैव च । शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः ॥ १,२०१.
रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात् । सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्? ॥ १,२०१.