धूम्रस्थाने गजे दृष्टे राज्यलाभजयादिकम् । धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनम् ॥ १,१९९.
सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशेत् । सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनादिकम् ॥ १,१९९.
सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः । कौलेयके सिंहगते स्त्रीचिन्ता ग्रामलाभकम् ॥ १,१९९.
सिंह स्थाने वृषं दृष्ट्वा गृहक्षेत्रार्थलाभकम् । सिंहस्थाने गजं दृष्ट्वा ग्रामस्वामित्वमेव च ॥ १,१९९.
सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखादिकम् । सिंहस्थानेस्थिते ध्वाङ्क्षे कन्याधान्यगुणादिकम् ॥ १,१९९.
शुनः स्थाने ध्वजं दृष्ट्वा स्थानचिन्तासुखादिकम् । शुनः स्थाने स्थिते धूम्रे कलहं कार्यनाशनम् ॥ १,१९९.
शुनः स्थान स्थिते सिंहे कार्यासिद्धिर्भविष्यति । स्थिते शुनि शुनः स्थाने धननाशो भविष्यति ॥ १,१९९.
शुनः स्थाने वृषं दृष्ट्वा रोगी रोगाद्वि मुच्यते । शुनः स्थाने खरं दृष्ट्वा कलहस्य भयं भवेत् ॥ १,१९९.
शुनः स्थाने गजं दृष्ट्वा पुत्रभार्यासमागमः । श्वस्थाने च स्थिते ध्वाङ्क्षे पीडास्यात्कुलनाशनम् ॥ १,१९९.
वृषस्थाने ध्वजं दृष्ट्वा राजपूजासुखादिकम् । वृषस्थाने स्थिते धूम्रे राजपूजासुखादिकम् ॥ १,१९९.
वृषस्थाने स्थिते सिंहे सौभाग्यञ्च धनादिकम् । स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः ॥ १,१९९.
वृषस्थाने वृषं दृष्ट्वा कीर्तितुष्टिसुखादिकम् । वृषस्थाने खरं दृष्ट्वा महालाभादिकं भवेत् ॥ १,१९९.
वृषस्थाने गजं दृष्ट्वा स्त्रीगजादिसमागमः । वृषस्थाने स्थिते ध्वाङ्क्षे स्थानमानसमागमः ॥ १,१९९.
खरस्थाने ध्वजं दृष्ट्वा रोगशोकादिकं भवेत् । खरस्थाने स्थिते धूम्रे तस्करादिभयं भवेत् ॥ १,१९९.
खरस्थाने स्थिते सिंहे पूजाश्रीविजयादिकम् । स्थिते शुनिखरस्थाने सन्तापधननाशनम् ॥ १,१९९.
खरस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः । खरस्थाने खरं दृष्ट्वा दुः खीपीडादि निर्दिशेत् ॥ १,१९९.
खरस्थाने गजं दृष्ट्वा सुखपुत्त्रादिकं भवेत् । खरस्थाने स्थिते ध्वाङ्क्षे कलहो व्याधिरेव च ॥ १,१९९.
गजस्थाने ध्वजं दृष्ट्वा स्त्रीजयश्रीसुखादिकम् । गजस्थानेस्थिते धूम्रे धनधान्यसमागमः ॥ १,१९९.
गजस्थाने स्थिते सिंहे जयसिद्धिसमागमः । स्थिते शुनि गजस्थाने आरोग्यं सुखसम्पदः ॥ १,१९९.
गजस्थाने वृषं दृष्ट्वा राजमानधनादिकम् । गजस्थाने खरं दृष्ट्वा पूर्वं दुः खं ततः सुखम् ॥ १,१९९.
गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम् । गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥ १,१९९.
ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति । ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥ १,१९९.
ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च । ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥ १,१९९.
ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम् । ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥ १,१९९.
ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत् । ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥ १,१९९.
श्रीगरुडमहापुराणम् २०० भैरव उवाच । वक्ष्ये वायुजयं देवि जया जयविदेशकम् । वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥ १,२००.
वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् । ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥ १,२००.
महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः । कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥ १,२००.
वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः । उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥ १,२००.
वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् । संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥ १,२००.