श्रीगरुडमहापुराणम् १९८ भैरव उवाच । नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम् । ओं ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् । ओं ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा । ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च । ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च । वेगवति महाप्रेतासनाय च पूजयेत् । ओं ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः । ऐं ह्रीं त्रिपुरायै नमः । ओं ह्रीं क्रीं पश्चिमवक्त्रं ओं ऐं ह्रीं ह्रीं च तथोत्तरम् । ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम् । ओं ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः । आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे । ऐं ह्रीं क्रीं अस्त्रायफट् ॥ १,१९८.
पूर्वे कामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्यै । दक्षिणे चैव कन्दाय वै नमः रुरुभैरवाय माहेश्वर्या वा आवाहयेत् ॥ १,१९८.
तथा पश्चिमे चण्डाय वै नमः । कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै ॥ १,१९८.
अग्निकोणे अघोरायोन्मत्तभैरवायेति वाराह्यै । रक्षः कोणे साराय कपालिने भैरवाय माहेन्द्र्यै ॥ १,१९८.
वायुकोणे जालन्धराय भीषणाय भैरवाय चामुण्डायै । ईशकोणके वटुकाय संहारञ्चण्डिकाञ्च प्रपूजयेत् ॥ १,१९८.
रतिप्रीतिकामदेवान्पञ्चबाणान्यजेदथ । ध्यानार्चनाज्जप्यहोमाद्देवी सिद्धा च सर्वदा ॥ १,१९८.
नित्या च त्रिपुरा व्याधिं हन्याज्ज्वालामुखीक्रमात् । ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभा ॥ १,१९८.
नित्यारुणा मदनातुरा महामोहा प्रकृत्यपि । महेन्द्राणी च कलनाकर्षिणी भारती तथा ॥ १,१९८.
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चापराजिता ॥ १,१९८.
विजया चाजिता चैवमोहिनी त्वरिता तथा । स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः । ज्वालामुखीक्रमं चार्चेद्विषादिहरणं भवेत् ॥ १,१९८.
श्रीगरुडमहापुराणम् १९९ भैरव उवाच । अथ चूडामणिं वक्ष्ये शुभाशुभविशुद्धये । सूर्यं देवीं गणं सोम स्मृत्वा तु विलिखेन्नरः ॥ १,१९९.
त्रिरेखा गोमूर्त्रिकाभा अथवा प्रश्रवाक्यतः । दिशस्थानप्रसूतो वा ध्वजादीन्गणयेत्क्रमात् ॥ १,१९९.
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरदन्तिनौ । ध्वाङ्क्षश्च अष्टमो ज्ञेयो नाम मन्त्रैश्च तान्न्यसेत् ॥ १,१९९.
ध्वजस्थाने ध्वजं दृष्ट्वा राज्यचिन्ताधनादिकम् । ध्वजस्थाने स्थितो धूम्रो धातुचिन्ता च लाभकृत् ॥ १,१९९.
ध्वजस्थाने स्थिते सिंहे धनलाभादिकं भवेत् । स्थिते शुनिध्वजस्थाने दासीचिन्तासुखादिकम् ॥ १,१९९.
ध्वजस्थाने वृषं दृष्ट्वा स्थानचिन्ता च लाभकम् । ध्वजस्थाने खरं दृष्ट्वा दुः खक्लेशादिकं भवेत् ॥ १,१९९.
ध्वजस्थाने गजं दृष्ट्वा स्थानचिन्ताजयादिकम् । ध्वजस्थाने तथा ध्वाङ्क्षे क्लेशचिन्ता धनक्षयः ॥ १,१९९.
धूम्रस्थाने ध्वजं दृष्ट्वा पूर्वं दुः खं ततो धनम् । धूम्रे धूम्रं तथा दृष्ट्वा कलिदुः खादिकं भवेत् ॥ १,१९९.
धूम्रस्थाने स्थिते सिंहे मनश्चिन्ताधनादिकम् । धूम्रस्थाने शुनि स्थिते जयलाभादिकं भवेत् ॥ १,१९९.
धूम्रस्थाने वृषं दृष्ट्वा नारीगोऽश्वधनादिकम् । धूम्रस्थाने खरं दृष्ट्वा व्याधिश्चापि धनक्षयः ॥ १,१९९.
धूम्रस्थाने गजे दृष्टे राज्यलाभजयादिकम् । धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनम् ॥ १,१९९.
सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशेत् । सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनादिकम् ॥ १,१९९.
सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः । कौलेयके सिंहगते स्त्रीचिन्ता ग्रामलाभकम् ॥ १,१९९.
सिंह स्थाने वृषं दृष्ट्वा गृहक्षेत्रार्थलाभकम् । सिंहस्थाने गजं दृष्ट्वा ग्रामस्वामित्वमेव च ॥ १,१९९.
सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखादिकम् । सिंहस्थानेस्थिते ध्वाङ्क्षे कन्याधान्यगुणादिकम् ॥ १,१९९.
शुनः स्थाने ध्वजं दृष्ट्वा स्थानचिन्तासुखादिकम् । शुनः स्थाने स्थिते धूम्रे कलहं कार्यनाशनम् ॥ १,१९९.
शुनः स्थान स्थिते सिंहे कार्यासिद्धिर्भविष्यति । स्थिते शुनि शुनः स्थाने धननाशो भविष्यति ॥ १,१९९.
शुनः स्थाने वृषं दृष्ट्वा रोगी रोगाद्वि मुच्यते । शुनः स्थाने खरं दृष्ट्वा कलहस्य भयं भवेत् ॥ १,१९९.
शुनः स्थाने गजं दृष्ट्वा पुत्रभार्यासमागमः । श्वस्थाने च स्थिते ध्वाङ्क्षे पीडास्यात्कुलनाशनम् ॥ १,१९९.
वृषस्थाने ध्वजं दृष्ट्वा राजपूजासुखादिकम् । वृषस्थाने स्थिते धूम्रे राजपूजासुखादिकम् ॥ १,१९९.