षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु 19.
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः 19.
पूर्वं दिनपतिर्भुङ्क्ते अर्द्धयामं ततोऽपरे 19.
नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्त्तनैः 19.
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः 19.
रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः 19.
यामार्द्धसन्धिसंस्थां च वेलां कालवतीं चरेत् 19.
दिवा षड्वेदनेत्राद्रिपञ्चत्रिमानुषांशकैः 19.
नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि 19.
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके 19.
अमृतस्तत्कृतो मोहो निवर्त्तेत च मर्दनात् 19.
ज्ञातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् 19.
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा 19.
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः 19.
गृहे विलिखिता यत्र तन्नागाः संत्यजन्ति च 19.
यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् 19.
ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा 19.
नामैतद्वारिधाराभिः स्न्नातो दष्टो विषं त्यजेत् 19.
अंगुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके 19.
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः 19.
ॐ ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा 19.
अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि 19.
वक्क्रे अमुत्तमांगे अः न्यसेद्वै हंससंयुताः 19.
गरुडोऽहमिति ध्यात्वा कुर्य्याद्विषहरां (रीं) क्रियाम् 19.
न्यस्य हंसं वामकरे नासामुखनिरोधकृत् 19.
स वायुना समाकृष्य दष्टानां गरलं हरेत् 19.
पीतं प्रत्यंगिरामूलं तण्डुलद्भिर्विषापहम् 19.
मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् 19.
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् 19.
सर्वांगलेपतशचापि पानाद्वा विषहृद्भवेत् 19.