सिखोपरि स्थितं दिव्यं शुद्धस्फटिकवर्चसम् । अप्रमाणमहाव्योमव्यापकं चामृतोपमम् ॥ १,१९७.
भूतन्यासं पुरा कृत्वा नागानाञ्च यथाक्रमम् । लकारान्ता बिन्दुयुता मन्त्रा भूतक्रमेण तु ॥ १,१९७.
शिवबीजं ततो दद्यात्ततो ध्यायेच्च मण्डलम् । योयस्य क्रमाख्यातो मण्डलस्य विचक्षणः । तस्य तच्चिन्तयेद्वर्णं कर्मकाले विधानवित् ॥ १,१९७.
पादपक्षैस्तथा चञ्चत्कृष्णनागैर्विभूषितम् । तार्क्ष्यं ध्यायेत्ततो नित्यं विषे स्थावरजङ्गमे ॥ १,१९७.
ग्रहभूतपिशाचे च डाकिनीयक्षराक्षसे । नागैर्विवेष्टितं कृत्वा स्वदेहे विन्यसेच्छिवम् ॥ १,१९७.
द्विधा न्यासः समाख्यातो नागानां चैव भूतयोः । एवं ध्यात्वा कर्म कुर्यादात्मतत्त्वादिकं क्रमात् ॥ १,१९७.
त्रितत्त्वं प्रथं दत्त्वा सिवतत्त्वं ततः परम् । यथा देहे तथा देवे अङ्गुलीनां च पर्वसु ॥ १,१९७.
देहे न्यासं पुरा कृत्वा ह्यनुलोमविलोमतः । कन्दं नालं तथा पद्मं धर्मं ज्ञानादिमेव च ॥ १,१९७.
द्वितीयस्वरसम्भिन्नं वर्गान्तेन तु पूजयेत् । शौमिति कर्णिकामध्ये मूर्ध्नि रेफेण संयुतम् ॥ १,१९७.
अकचटतपयशा वर्गाः पूर्वादिके न्यसेत् । पत्रान्तकेसरान्ते तु द्वौ द्वौ पूर्वादिकौ तथा ॥ १,१९७.
केशरे तु स्वरान्न्यस्यादीशान्तान्षोडशार्चयेत् । वामाद्याः शक्तयः प्रोक्तास्त्रितत्त्वन्तु ततो न्यसेत् ॥ १,१९७.
आवाहयेत्ततो मर्ध्नि शिवमङ्गं ततः परम् । कर्णिकायां न्यसेद्देवं सांगं तत्र पुरः सरम् ॥ १,१९७.
पृतिवी पश्चिमे पत्रे आपश्चोत्तरसंस्थिताः । तेजस्तु दक्षिणे पत्रे वायुं पूर्वेण पूजयेत् ॥ १,१९७.
स्वबीजं मूर्तिरूपन्तु प्रागुक्तं पारकल्पयेत् । यं वायुमूलं नैरृत्ये रेफस्त्वनलसंस्थितः ॥ १,१९७.
वं च त्वीशे सदा पूज्य ओं हृदिस्थञ्च पूजयेत् । तन्मात्रान्भूतमात्रांस्तान्बहिरेव प्रपूजयेत् ॥ १,१९७.
शिवाङ्गानि ततः पश्चाद्ध्यात्वा संपूजयेत्ततः । आग्नेय्यां हृदयं पूज्य शिर ईशानगोचरे ॥ १,१९७.
नैरृत्ये तु शिखां दद्याद्वायव्यां कवचं न्यसेत् । अस्त्रन्तु बाह्यतो दद्यान्नेत्रमुत्तरसंस्थितम् ॥ १,१९७.
पत्राग्रे कर्णिकग्रे तु बीजानि परिपूजयेत् । अनन्तादिकुलीरान्ता अष्टौ नागाः क्रमात्स्थिताः ॥ १,१९७.
पूर्वादिकक्रमेणैव त्वीशपर्यन्तमेव च । पूजयेच्च सदा मन्त्री विधानेन पृथक्पृथक् ॥ १,१९७.
हृदि पद्मे विधानेन शिलादौ दत्तमण्डले । एतत्कार्यं समुद्दिष्टं नित्यनैमित्तिकेऽपि च ॥ १,१९७.
आत्मानं चिन्तयेन्नित्यं कामरूपं मनोहरम् । प्लावयन्तं जगत्सर्वं सृष्टिसंहारकारकम् ॥ १,१९७.
ज्वालामालाभिरुद्दीप्तं आब्रह्मभुवनान्तकम् । दशबाहुं चतुर्वक्त्रं पिङ्गाक्षं शूलपाणिनम् ॥ १,१९७.
दंष्ट्राकरालमत्युग्रं त्रिनेत्रं शशिशेखरम् । भैरवन्तु स्मरेत्सिद्ध्यै गरुडं सर्वकर्मसु ॥ १,१९७.
नागानां नाशनार्थाय गरुडं भीमभीषणम् । पादौ पातालं संस्थौ च दिशः पक्षास्तु संश्रिताः ॥ १,१९७.
सप्त स्वर्गा उरसि च ब्रह्माण्डं कण्ठमाश्रितम् । पूर्वादीशानपर्यन्तं शिरस्तस्य विचिन्तयेत् ॥ १,१९७.
सदाशिवशिखान्तस्थं शक्तित्रितयमेव च । परात्परं शिवं साक्षात्तार्क्ष्यं भुवननायकम् ॥ १,१९७.
त्रिनेत्रमुग्ररूपञ्च विषनागक्षयङ्करम् । ग्रसनं भीमवक्त्रं च गरुडं मन्त्रविग्रहम् ॥ १,१९७.
कालाग्निमिव दीप्तं च चिन्तयेत्सर्वकर्मसु । एवं न्यासविधिं कृत्वा यद्यन्मनसि चिन्तयेत् ॥ १,१९७.
तत्तदेव भवेत्साध्यं नरो वै गरुडायते । प्रेता भूतास्तथा यक्षा नागा गन्धर्वराक्षसाः । दर्शनात्तस्य नश्यन्ति ज्वराश्चातुर्थिकादयः ॥ १,१९७.
धन्वन्तरिरुवाच । एवं स गरुडं प्रोचे गरुडः कश्यपाय च । महेश्वरो यथा गौरीं प्राह विद्यां तथा शृणु ॥ १,१९७.