मधुहा चापराह्ने च सायं रक्षतु माधवः । हृषीकेशः प्रदोषेऽव्यात्प्रत्यूषेऽव्याज्जनार्दनः ॥ १,१९६.
श्रीधरोऽव्यादर्धरात्रे पद्मनाभो निशीथके । चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान् ॥ १,१९६.
शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा । बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः ॥ १,१९६.
शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम् । विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु ॥ १,१९६.
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा । स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत् ॥ १,१९६.
thumb|पञ्चमहाभूतानि धन्वन्तरिरुवाच । गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम् । कश्यपाय सुमित्रेण विषहृद्येन गारुडः ॥ १,१९७.
पृथिव्यापस्तथा तेजो वायुराकाशमेवच । क्षित्यादिष्वेव वर्गाश्च ह्येते वै मण्डलाधिपाः ॥ १,१९७.
पञ्चतत्त्वे स्थिता देवाः प्राप्यन्ते विष्णुसेवकैः । दीर्घस्वरविभिन्नाश्च नपुंसकविवर्जिताः ॥ १,१९७.
सषडङ्गः शिवः प्रोक्तो हृच्छिरश्च शिखा क्रमात् । कवचं नेत्रमस्त्रं स्यान्न्यासः स्वस्थलसंस्थितिः ॥ १,१९७.
सर्वसिद्धिप्रदस्यान्ते कालवह्निर धोऽनिलः । षष्ठस्वरसमायुक्तमर्धेन्दुसंयुतं परम् ॥ १,१९७.
परापरविभिन्नाश्च शिवस्योर्ध्वाध ईरिताः । रेफेणाङ्गेषु सर्वत्र न्यासं कुर्याद्यथाविधि ॥ १,१९७.
हृदि पाणितले देहे कर्णे नेत्रे करोति च । जपात्तु सर्वसिद्धिः स्याच्चतुर्वक्त्रसमायुताम् ॥ १,१९७.
चतुरश्रां सुविस्तारं पीतवर्णान्तु चिन्तयेत् । पृथिवीं चेन्द्रदेवत्यां मध्ये वरुणमण्डलम् ॥ १,१९७.
मध्ये पद्मं तथायुक्तमर्धचन्द्रं सुशीतलम् । इन्द्रनीलद्युतिं सौम्यमथवाग्नेयमण्डलम् ॥ १,१९७.
त्रिकोणं स्वस्थिकैर्युक्तं ज्वालामा लानलं स्मरेत् । भिन्नाञ्जननिभाकारं स्ववृत्तं बिन्दुभूषितम् ॥ १,१९७.
क्षीरोर्मिसदृशाकारं शुद्धस्फटिकवर्चसम् । प्लावयन्तं जगत्सर्वं व्योमामृतमनुंस्मरेत् ॥ १,१९७.
वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले । कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ ॥ १,१९७.
आग्नेये चापि कुलिकस्तक्षश्चैव महाब्जकौ । वायुमण्डलसंस्थौ च पञ्च भूतानि विन्यसेत् ॥ १,१९७.
अङ्गुष्ठादिकनिष्ठान्तमनुलोमविलोमतः । पर्वसन्धिषु च न्यस्या जया च विजया तथा ॥ १,१९७.
आस्यादिस्वपुरस्थाने न्यस्याच्छिवपडङ्गकम् । कनिष्ठादौ हृदादौ च शिखायां करयोर्न्यसेत् ॥ १,१९७.
व्यापकन्तु तत्वपूर्वं क्रमादङ्गुलिपर्वसु । भूतानाञ्च पुनर्न्यासः शिवाङ्गानि तथैव च ॥ १,१९७.
प्रणवादिनमश्चान्ते नाम्नैव च समन्वितः । सर्वमन्त्रेषु कथितो विधिः स्थापनपूजने ॥ १,१९७.
आद्याक्षरं तन्नाम्नश्च मन्त्रोऽयं परिकीर्तितः । अष्टानां नागजातीनां मन्त्रः सान्निध्यकारकः ॥ १,१९७.
ओं स्वाहा क्रमशश्चैव पञ्चभूतपुरोगतम् । एष साक्षाद्भवेत्तार्क्ष्यः सर्वकर्मप्रसाधकः ॥ १,१९७.
करन्यासं स्वरैः कृत्वा शरीरे तु पुनर्न्यसेत् । ज्वलन्तं चिन्तयेत्प्राणमात्मसंशुद्धिकारकम् ॥ १,१९७.
बीजन्तु चिन्तयेत्पश्चाद्वर्षान्तममृतात्मकम् । एवञ्चाप्यायनं कृत्वा मूर्ध्नि सञ्चिन्त्य चात्मनः ॥ १,१९७.
पृथिवीं पादयोर्दद्यात्तप्तकाञ्चनसप्रभाम् । अशेषभुवनाकीर्णां लोकपालसमन्विताम् ॥ १,१९७.
एतां भगवतीं पृथ्वीं स्वदेहे विन्यसेद्बुधः । श्यामवर्णमयं ध्यायेत्पृथिवीद्विगुणं भवेत् ॥ १,१९७.
ज्वालामालाकुलं दीप्तमाब्रह्मभुवनान्तकम् । नाभिग्रीवान्तरे न्यस्य त्रिकोणं मण्डलं रवेः ॥ १,१९७.
भिन्नाञ्जननिभाकारं निखिलं व्याप्य संस्थितम् । आत्ममूर्तिस्थितं ध्यायेद्वायव्यं तीक्ष्णमण्डलम् ॥ १,१९७.