विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ १,१९४.
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् । स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ १,१९४.
अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते । ओं कालाय स्वाहा । ओं कालपुरुषाय स्वाहा । ओं कृष्णाय स्वाहा । ओं कृष्णरूपाय स्वाहा । ओं चण्डाय स्वाहा । ओं चण्डरूपाय स्वाहा । ओं प्रचण्डाय स्वाहा । ओं प्रचणरूपाय स्वाहा । ओं सर्वाय स्वाहा । ओं सर्वरूपाय स्वाहा । ओं नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा। ओं नमः अयोखेतये ये ये संज्ञापय दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुद्धर्राणामेकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादी नामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्र पूर्वतो रक्षतु ओं है है है है दिनकरसहस्रकालसमाहतो जय पश्चिमतो रक्ष ओं निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ओं विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतो भयनुदभयतोऽभयं दिशतुच्युतं । तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः । वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः । सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥ १,१९४.
श्रीगरुडमहापुराणम् १९५ हरिरुवाच । सल्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु । नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥ १,१९५.
प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च । नमो विज्ञानमात्राय परमानन्दमूर्तये ॥ १,१९५.
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये । त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥ १,१९५.
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये । यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥ १,१९५.
मृन्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः । यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः । अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥ १,१९५.
ओं नमो भगवते महापुराषाय महाभूतपतये सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया? चरणारविन्दयुगल परमेष्ठिन्नमस्ते । अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥ १,१९५.
श्रीगरुडमहापुराणम् १९६ हरिरुवाच । अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया । सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥ १,१९६.
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि । मुखे शिरस्यानुपूर्वमोङ्का रादीनि विन्यसेत् ॥ १,१९६.
नमो नारायणायेति विपर्यासमथापि च । करन्यासं ततः कुर्याद्द्वादक्षरविद्यया ॥ १,१९६.
प्रणवादियकारान्तमङ्गुल्यं गुष्ठपर्वसु । न्यसेद्धृदय ओङ्कारं मनुं मूर्ध्नि समस्तकम् ॥ १,१९६.
ओङ्कारन्तु भ्रुवोर्मध्ये शिकानेत्रादिमूर्धतः । ओं विष्णवे इति इमं मन्त्रन्यासमुदीरयेत् ॥ १,१९६.
आत्मानं परमं ध्यायेच्छेषं यच्छक्तिभिर्युतम् । मम रक्षां हरिः कुर्यान्मत्स्यमूर्तिर्जलेऽवतु ॥ १,१९६.
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः । अटव्यां नरसिंहस्तु रामो रक्षतु पर्वते ॥ १,१९६.
भूमौ रक्षतु वाराहौ व्योम्नि नारायणोऽवतु । कर्मबन्धाच्च कपिलो दत्तो रोगाच्च रक्षतु ॥ १,१९६.
हयग्रीवो देवताभ्यः कुमारो मकरध्वजात् । नारदोऽन्यार्चनाद्देवः कूर्मो वै नैरृते सदा ॥ १,१९६.
धन्वन्तीरश्चापथ्याच्च नागः क्रोधवशात्किल । यज्ञो रोगात्समस्ताच्च व्यासोऽज्ञानाच्च रक्षतु ॥ १,१९६.
बुद्धः पाषण्डसंघातात्कल्की रक्षतु कल्मषात् । पायान्मध्यन्दिने विष्णुः प्रातर्नारायणोऽवतु ॥ १,१९६.
मधुहा चापराह्ने च सायं रक्षतु माधवः । हृषीकेशः प्रदोषेऽव्यात्प्रत्यूषेऽव्याज्जनार्दनः ॥ १,१९६.
श्रीधरोऽव्यादर्धरात्रे पद्मनाभो निशीथके । चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान् ॥ १,१९६.
शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा । बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः ॥ १,१९६.
शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम् । विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु ॥ १,१९६.
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा । स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत् ॥ १,१९६.
thumb|पञ्चमहाभूतानि धन्वन्तरिरुवाच । गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम् । कश्यपाय सुमित्रेण विषहृद्येन गारुडः ॥ १,१९७.
पृथिव्यापस्तथा तेजो वायुराकाशमेवच । क्षित्यादिष्वेव वर्गाश्च ह्येते वै मण्डलाधिपाः ॥ १,१९७.
पञ्चतत्त्वे स्थिता देवाः प्राप्यन्ते विष्णुसेवकैः । दीर्घस्वरविभिन्नाश्च नपुंसकविवर्जिताः ॥ १,१९७.
सषडङ्गः शिवः प्रोक्तो हृच्छिरश्च शिखा क्रमात् । कवचं नेत्रमस्त्रं स्यान्न्यासः स्वस्थलसंस्थितिः ॥ १,१९७.
सर्वसिद्धिप्रदस्यान्ते कालवह्निर धोऽनिलः । षष्ठस्वरसमायुक्तमर्धेन्दुसंयुतं परम् ॥ १,१९७.