पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् । दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी ॥ १,१९४.
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् । ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ १,१९४.
पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ । सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ १,१९४.
वराहो रक्षतु जले विषमेषु च वामनः । अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥ १,१९४.
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु । सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ १,१९४.
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १,१९४.
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतोदिशम् ॥ १,१९४.
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १,१९४.
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् । वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १,१९४.
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १,१९४.
सर्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १,१९४.
शत्रीन्हलेन मे हन्याद्रामो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः । कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १,१९४.
अन्धकारतमोघोरं पुरुषं कृष्णषिङ्गलम् । पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १,१९४.
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः । धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ १,१९४.
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् । वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ १,१९४.
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् । स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ १,१९४.
सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् । यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा । सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ १,१९४.
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः । ते हि च्छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ १,१९४.
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च । विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ १,१९४.
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये । अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ १,१९४.
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ १,१९४.
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् । स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ १,१९४.
अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते । ओं कालाय स्वाहा । ओं कालपुरुषाय स्वाहा । ओं कृष्णाय स्वाहा । ओं कृष्णरूपाय स्वाहा । ओं चण्डाय स्वाहा । ओं चण्डरूपाय स्वाहा । ओं प्रचण्डाय स्वाहा । ओं प्रचणरूपाय स्वाहा । ओं सर्वाय स्वाहा । ओं सर्वरूपाय स्वाहा । ओं नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा। ओं नमः अयोखेतये ये ये संज्ञापय दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुद्धर्राणामेकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादी नामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्र पूर्वतो रक्षतु ओं है है है है दिनकरसहस्रकालसमाहतो जय पश्चिमतो रक्ष ओं निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ओं विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतो भयनुदभयतोऽभयं दिशतुच्युतं । तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः । वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः । सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥ १,१९४.
श्रीगरुडमहापुराणम् १९५ हरिरुवाच । सल्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु । नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥ १,१९५.
प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च । नमो विज्ञानमात्राय परमानन्दमूर्तये ॥ १,१९५.
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये । त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥ १,१९५.
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये । यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥ १,१९५.
मृन्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः । यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः । अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥ १,१९५.
ओं नमो भगवते महापुराषाय महाभूतपतये सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया? चरणारविन्दयुगल परमेष्ठिन्नमस्ते । अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥ १,१९५.
श्रीगरुडमहापुराणम् १९६ हरिरुवाच । अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया । सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥ १,१९६.