प्रस्थद्वयं माषकस्य क्वाथश्च द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ १,१९२.
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् । पुनर्नवा गोक्षुरकं सैन्धवं त्र्यूषणं वचा ॥ १,१९२.
लवणं सुरदारुश्च मञ्जिष्ठा कण्टकारिका । नस्यात्पानाद्धरत्येव कर्णशूलं सुदारुणम् ॥ १,१९२.
बाधिर्यं सर्वरोगांश्च ह्यभ्यङ्गाच्च महेश्वर । पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ॥ १,१९२.
सौवीरपञ्चप्रस्थं च तैलप्रस्थं पचेत्ततः । असृग्दरस्वरप्लीहासर्ववातविकारनुत् ॥ १,१९२.
उदुम्बरं वटं प्लक्षं जम्बूद्वयमथार्जुनम् । पिप्पली च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥ १,१९२.
मधूकमाम्रसर्जञ्च बदरं पद्मकेशरम् । शिरीषबीजङ्कतकमेतत्क्वाथेन साधितम् । तैलं हन्ति व्रणांल्लेपाच्चिरकालभवानपि ॥ १,१९२.
श्रीगरुडमहापुराणम् १९३ हरिरुवाच । पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ १,१९३.
ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम् ॥ १,१९३.
सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम् ॥ १,१९३.
प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम् । नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम् ॥ १,१९३.
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात् ॥ १,१९३.
निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा । देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥ १,१९३.
देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च । पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम् ॥ १,१९३.
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् । कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम् । दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥ १,१९३.
बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा । जीर्णेऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम् ॥ १,१९३.
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् । सर्वशूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ १,१९३.
अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै ॥ १,१९३.
अभयामलकं द्राक्षा पाठा चैव विभीतकम् । शर्कराया समं चैव जग्धं ज्वरहरं भवेत् ॥ १,१९३.
त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत् । हरीतकी सोष्णानीरलवणञ्च विरेककृत् ॥ १,१९३.
कूर्ममत्स्याश्वमहिषगोशृगालाश्च वानराः । विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः ॥ १,१९३.
हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम् । धूपं दद्याज्ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥ १,१९३.
एतान्यौषधजातानि कथितानि उमापते । निघ्नन्ति ताश्च रोगांश्च वृक्षमिन्द्राशनिर्यथा ॥ १,१९३.
औषधंभगवान्विष्णुः संस्मृतो रोगनुद्भवेत् । ध्यातोऽर्चितः स्तुतो वापि नात्र कार्या विचारणा ॥ १,१९३.
श्रीगरुडमहापुराणम् १९४ हरिरुवाच । सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् । येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १,१९४.
प्रणम्य देवमीशानमजं नित्यमनामयम् । देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १,१९४.
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । अमोघाप्रतिमं सर्वं सर्वदुः खनिवारणम् ॥ १,१९४.
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ १,१९४.
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ १,१९४.
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ १,१९४.