एभिर्लेपात्सयुररुजो व्रणा विस्त्राविणः शिव । शङ्खपुष्पी वचा सोमो ब्राह्मी ब्रह्मसुवर्चलाः ॥ १,१९२.
अभया च गुडूची च आटरूषकवाकुची । एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १,१९२.
कण्टकार्या रसप्रस्थं क्षीरप्रस्थसमन्वितम् । एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥ १,१९२.
अग्निमन्थो वचा वासा पिप्पली मधु सैन्धवम् । सप्तरात्रप्रयोगेण किन्नरैरिव गीयते ॥ १,१९२.
अपामार्गः गुडूची च वचा कुष्ठं शतावरी । शङ्खपुष्पाभया साज्यं विडङ्गं भक्षितं समम् । त्रिभिर्दिनैर्नरं कुर्याद्ग्रन्थाष्टशतधारिणम् ॥ १,१९२.
अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता । वचा कर्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥ १,१९२.
चन्द्रसूर्यग्रहे पीतं पलमेकं पयोऽन्वितम् । वचायास्तत्क्षणं कुर्यान्महाप्रज्ञायुतं नरम् ॥ १,१९२.
भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम् । पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ॥ १,१९२.
विस्फोटकानि रक्तञ्च नात्र कार्या विचारणा । कतकस्य फलं शङ्खं सैन्धवं त्र्यूषणं वचा ॥ १,१९२.
फेनी रसाञ्जनं क्षौद्रं विडङ्गानि मनः शिला । एषां वर्तिर्हन्ति काचं तिमिरं पटलं तथा ॥ १,१९२.
प्रस्थद्वयं माषकस्य क्वाथश्च द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ १,१९२.
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् । पुनर्नवा गोक्षुरकं सैन्धवं त्र्यूषणं वचा ॥ १,१९२.
लवणं सुरदारुश्च मञ्जिष्ठा कण्टकारिका । नस्यात्पानाद्धरत्येव कर्णशूलं सुदारुणम् ॥ १,१९२.
बाधिर्यं सर्वरोगांश्च ह्यभ्यङ्गाच्च महेश्वर । पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ॥ १,१९२.
सौवीरपञ्चप्रस्थं च तैलप्रस्थं पचेत्ततः । असृग्दरस्वरप्लीहासर्ववातविकारनुत् ॥ १,१९२.
उदुम्बरं वटं प्लक्षं जम्बूद्वयमथार्जुनम् । पिप्पली च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥ १,१९२.
मधूकमाम्रसर्जञ्च बदरं पद्मकेशरम् । शिरीषबीजङ्कतकमेतत्क्वाथेन साधितम् । तैलं हन्ति व्रणांल्लेपाच्चिरकालभवानपि ॥ १,१९२.
श्रीगरुडमहापुराणम् १९३ हरिरुवाच । पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ १,१९३.
ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम् ॥ १,१९३.
सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम् ॥ १,१९३.
प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम् । नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम् ॥ १,१९३.
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात् ॥ १,१९३.
निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा । देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥ १,१९३.
देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च । पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम् ॥ १,१९३.
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् । कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम् । दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥ १,१९३.
बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा । जीर्णेऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम् ॥ १,१९३.
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् । सर्वशूलहरं चूर्णं जठरानलदीपनम् । परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ १,१९३.
अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै ॥ १,१९३.
अभयामलकं द्राक्षा पाठा चैव विभीतकम् । शर्कराया समं चैव जग्धं ज्वरहरं भवेत् ॥ १,१९३.
त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत् । हरीतकी सोष्णानीरलवणञ्च विरेककृत् ॥ १,१९३.