त्रितयं पिप्पलीमूलं विडङ्गानां चतुष्टयम् । अष्टौ मुशलिकाभागास्त्रिफलायाश्चतुष्टयम् । द्विगुणेन गुडेनैषां मोदकानिह कारयेत् ॥ १,१९२.
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्ज कामलम् । अतीसारांश्च मन्दाग्निं प्लीहाञ्चैव निवारयेत् ॥ १,१९२.
बिल्वाग्निमन्थः श्योनाकपाटलापारिभद्रकम् । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ १,१९२.
बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्नवा । एरण्डः शारिवा पर्णो गुडूची कपिकच्छुका ॥ १,१९२.
एषां दशपलान्भागान्क्वाथयेत्सलिलेऽमले । तेन पादावशेषेण तैलपात्रे विपाचयेत् ॥ १,१९२.
आजं वा यदि गव्यं क्षीरं दत्त्वा चतुर्गुणम् । शतावरीं सैन्धवञ्च तैलतुल्यं प्रदापयेत् ॥ १,१९२.
द्रव्याणियानि पेष्याणि तानि वक्ष्यामि तच्छृणु । शतपुष्पा देवदारुर्बला पर्णो वचागुरु ॥ १,१९२.
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा । पाने नस्ये तथाभ्यङ्गे तैलमेतत्प्रदापयेत् ॥ १,१९२.
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् । अपस्मारं वातरक्तं वपुष्मांश्च पुमान्भवेत् ॥ १,१९२.
गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी हर । अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा । तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम् ॥ १,१९२.
हिङ्गुतुम्बुरुशुण्ठीभिः सिद्धं तैलन्तु सार्षपम् । एतद्धि पुरणं श्रेष्ठं कर्णशूलापहं परम् ॥ १,१९२.
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । तक्रं चतुर्गुणं दद्यात्तैलमेतद्विपाचयेत् ॥ १,१९२.
बाधिर्यं कर्णशूलञ्च पूयस्त्रावञ्च कर्णयोः । क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥ १,१९२.
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १,१९२.
सौवर्चलं यवक्षारं सामुद्रं सैन्धवं तथा । ग्रन्थिकं विडमुस्तं च मधु शुक्तं चतुर्गुणम् ॥ १,१९२.
मातुलुङ्गरसश्चैव कदलीरस एव च । तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥ १,१९२.
बाधिर्यं कर्णनादश्च पूयस्त्रावश्च दारुणम् । पूरणादस्य तैलस्य क्रिमयः कर्णयोर्हर ॥ १,१९२.
सद्यो विनाशमायान्ति शशाङ्ककृतशेखर । क्षारतैलमिदं श्रेष्ठं मुखदन्तमलापहम् ॥ १,१९२.
चन्दनं कुङ्कुमं मांसी कर्पूरं जातिपत्रिका । जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥ १,१९२.
अगुरूणि च कस्तूरी कुष्ठं तगरपादिका । गोरोचना प्रियङ्गुश्च बला चैव तथा नखी ॥ १,१९२.
सरलं सप्तपर्णं च लाक्षा चामलकी तथा । तथा तु पद्मकं चैव ह्येतैस्तैलं प्रसाधयेत् ॥ १,१९२.
प्रस्वेदमलदुर्गन्धकण्डू कुष्ठहरं परम् । गच्छति स्त्रीशतं रुद्र बन्ध्यापि लभते सुतम् ॥ १,१९२.
यवानी चित्रकं धान्यं त्र्यूषणं जीरकं तथा । सौवर्चलं विडगञ्च पिप्पलीमूलराजिकम् ॥ १,१९२.
एभिः पचेद्रघृतप्रस्थं जलप्रस्थाष्टसंयुतम् । तथार्ऽशोगुल्मश्वयथुं हन्ति वह्निं करोति वै ॥ १,१९२.
मरिचं त्रिवृतं कुष्ठं हरितालं मनः शिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ १,१९२.
विशाला करवीरञ्च अर्कक्षीरं शकृद्रसः । एषाञ्च कार्षिको भागो विषस्यार्धपलं भवेत्त् ॥ १,१९२.
प्रस्थं सटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥ १,१९२.
पामा विचर्चिका चैव दद्रुर्विस्फोचकानिच । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ १,१९२.
प्रभूतान्यपि श्वित्राणि तैलेनानेन मर्दयेत् । चिरोत्थितमपि श्वित्रं विनष्टं तत्क्षणाद्भवेत् ॥ १,१९२.
पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा । जातीशमीनिम्बपत्रं मधुकं क्वथितं घृतम् ॥ १,१९२.