विषंनृणां विनश्येत्तु एतेषां भक्षणाच्छिव । दीपतैलप्रदानाच्च दंशैराकीटजैः शिव । खर्जूरकविषं नश्येत्तदा वै नात्र संशयः ॥ १,१९१.
दंशस्थानं वृश्चिकस्य शुण्ठी तगरसंयुता । नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥ १,१९१.
शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपयेत् । शिरीषस्य तु बीजंवै सिद्ध क्षीरेण घर्षितम् ॥ १,१९१.
तल्लेपेन महादेव नश्येत्कुक्कुरजं विषम् । ज्वलिताग्निर्वारिसेको तथा दर्दुरजं विषम् ॥ १,१९१.
धत्तूरकरसोन्मिश्रं क्षीराद्यगुडपानतः । शूनां विषं विनश्येत्तु शशाङ्काङ्कितशेखर ॥ १,१९१.
वटनिम्बशमीनाञ्च वल्कलैः क्वथितं जलम् । तत्सेकान्मुखदन्तानां नश्येद्वै विषवेदना ॥ १,१९१.
लेपनाद्देवदारोश्च गैरिकस्य च लेपनात् । नागेश्वरो दरिद्रे द्वे तथा मञ्जिष्ठका हर । एभिर्लेपाद्विनश्येत्तु लूताविषमुमापते ॥ १,१९१.
करञ्जस्य तु बीजानि वरुणच्छदमेव च । तिलाश्च सर्षपा हन्युर्विषं वै नात्र संशयः ॥ १,१९१.
घृतं कुमारीपत्रं वै दत्तं सलवणं हर । तुरङ्गमशरीराणां कण्डूर्नश्येद्दशाहतः ॥ १,१९१.
श्रीगरुडमहापुराणम् १९२ हरिरुवाच । चित्रकस्याष्टभागाश्च शूरणस्य च षोडश । शुण्ठ्या भागाश्च चत्वारो मरिचानां द्वयं तथा ॥ १,१९२.
त्रितयं पिप्पलीमूलं विडङ्गानां चतुष्टयम् । अष्टौ मुशलिकाभागास्त्रिफलायाश्चतुष्टयम् । द्विगुणेन गुडेनैषां मोदकानिह कारयेत् ॥ १,१९२.
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्ज कामलम् । अतीसारांश्च मन्दाग्निं प्लीहाञ्चैव निवारयेत् ॥ १,१९२.
बिल्वाग्निमन्थः श्योनाकपाटलापारिभद्रकम् । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ १,१९२.
बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्नवा । एरण्डः शारिवा पर्णो गुडूची कपिकच्छुका ॥ १,१९२.
एषां दशपलान्भागान्क्वाथयेत्सलिलेऽमले । तेन पादावशेषेण तैलपात्रे विपाचयेत् ॥ १,१९२.
आजं वा यदि गव्यं क्षीरं दत्त्वा चतुर्गुणम् । शतावरीं सैन्धवञ्च तैलतुल्यं प्रदापयेत् ॥ १,१९२.
द्रव्याणियानि पेष्याणि तानि वक्ष्यामि तच्छृणु । शतपुष्पा देवदारुर्बला पर्णो वचागुरु ॥ १,१९२.
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा । पाने नस्ये तथाभ्यङ्गे तैलमेतत्प्रदापयेत् ॥ १,१९२.
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् । अपस्मारं वातरक्तं वपुष्मांश्च पुमान्भवेत् ॥ १,१९२.
गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी हर । अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा । तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम् ॥ १,१९२.
हिङ्गुतुम्बुरुशुण्ठीभिः सिद्धं तैलन्तु सार्षपम् । एतद्धि पुरणं श्रेष्ठं कर्णशूलापहं परम् ॥ १,१९२.
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । तक्रं चतुर्गुणं दद्यात्तैलमेतद्विपाचयेत् ॥ १,१९२.
बाधिर्यं कर्णशूलञ्च पूयस्त्रावञ्च कर्णयोः । क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥ १,१९२.
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १,१९२.
सौवर्चलं यवक्षारं सामुद्रं सैन्धवं तथा । ग्रन्थिकं विडमुस्तं च मधु शुक्तं चतुर्गुणम् ॥ १,१९२.
मातुलुङ्गरसश्चैव कदलीरस एव च । तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥ १,१९२.
बाधिर्यं कर्णनादश्च पूयस्त्रावश्च दारुणम् । पूरणादस्य तैलस्य क्रिमयः कर्णयोर्हर ॥ १,१९२.
सद्यो विनाशमायान्ति शशाङ्ककृतशेखर । क्षारतैलमिदं श्रेष्ठं मुखदन्तमलापहम् ॥ १,१९२.
चन्दनं कुङ्कुमं मांसी कर्पूरं जातिपत्रिका । जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥ १,१९२.
अगुरूणि च कस्तूरी कुष्ठं तगरपादिका । गोरोचना प्रियङ्गुश्च बला चैव तथा नखी ॥ १,१९२.