ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ।। 18.
शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् 18.
ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे 18.
तस्यैवांगगतां देवीममृतामृतभाषिणी(विनि) म् 18.
जपेदष्टसहस्त्रं वै त्रिसन्ध्यं मासमेकतः 18.
आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् 18.
दीपांबरं भूषणं च नैवद्यं पानवीजनम् 18.
वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् 18.
षडंगादिप्रकारेण पूजनं तु क्रमोदितम् 18.
अर्घ्यपात्रार्चनं चादौवस्त्रेणैव तु ताडनम् 18.
पूजा चाधारशक्त्यादेः प्राणायामं तथासने 18.
आत्मानं देवरूपं च करांगन्यासकं चरेत् 18.
मूर्त्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् 18.
सान्निध्यकरणं देवे परिवारस्य पूजनम् 18.
धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः 18.
मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् 18.
ॐ अमृतेश्वर ॐ भैरवाय नमः 18.
एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च 18.
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् 19.
चितावल्मीकशैलादौ कपे च विवरे तरोः 19.
षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु 19.
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः 19.
पूर्वं दिनपतिर्भुङ्क्ते अर्द्धयामं ततोऽपरे 19.
नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्त्तनैः 19.
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः 19.
रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः 19.
यामार्द्धसन्धिसंस्थां च वेलां कालवतीं चरेत् 19.
दिवा षड्वेदनेत्राद्रिपञ्चत्रिमानुषांशकैः 19.
नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि 19.
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके 19.