मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै । पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति ॥ १,१९०.
कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा । रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः । तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ॥ १,१९०.
कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः । जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि ॥ १,१९०.
माहिषेण पुरीषेण वेष्टिता वृषभध्वज । अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर ॥ १,१९०.
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् । तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान् ॥ १,१९०.
मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया । अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च । सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥ १,१९०.
युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च । तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका ॥ १,१९०.
दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति । काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत् ॥ १,१९०.
मधुयष्टी शर्करा च वासकस्य रसो मधु । एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥ १,१९०.
रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु । प्रातः काले तोयपानात्पीनसं दारुणं हरेत् ॥ १,१९०.
बिभीतकस्य वै चूर्णं पिप्पल्याः सैन्धवस्य च । पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ॥ १,१९०.
चूर्णमामलकं सेव्यं पीतं गव्यपयोऽन्वितम् । मनः शिला बलामूलं कोलपण च गुग्गुलुः ॥ १,१९०.
जातिपत्रं कोलपत्रं तथा चैव मनः शिला । एभिश्चैव कृता वर्तिर्बदर्यग्नौ महेश्वर । धूमपानं कासहरं नात्र कार्या विचारणा ॥ १,१९०.
त्रिफलापिप्पलीचूर्णं भक्षितं मधुनायुतम् । भोजनादौ हि समधु पिपासाज्व(त्व)रितं हरेत् ॥ १,१९०.
बिल्वमूलञ्च समधुगुडूचीक्वथितं जलम् । पीतं हरेच्च त्रिवधं छर्दिं नैवात्रसंशयः । पीता दूर्वा छर्दिनुत्स्यात्पिष्टातण्डुलवारिणा ॥ १,१९०.
श्रीगरुडमहापुराणम् १९१ हरिरुवाच । पुनर्नवाया मूलञ्च श्वेतं पुष्ये समाहृतम् । वारि पीतं तस्य पार्श्व भवनेषु न पन्नगाः ॥ १,१९१.
तार्क्ष्यमूर्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम् । स पन्नगैर्न दृश्येत यावज्जीवं वृषध्वज ॥ १,१९१.
पिबेच्छल्मलिमूलं यः पुष्यर्क्षे रुद्र वारिणा । तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥ १,१९१.
पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान् । गृह्णीयाल्लेपतो वापि नात्र कार्या विचारणा ॥ १,१९१.
पुष्येश्वेतार्कमूलन्तु पीतं शीतेन वारिणा । नश्येतु दंशकविषं करवीरादिजं विषम् ॥ १,१९१.
महाकालस्य वै मूलं पिष्टं तत्काञ्जिकेन वै । वोड्राणां डुण्डुभानां च तल्लोपो हरते विषम् ॥ १,१९१.
तण्डुलीयकमूलं च पिष्टं तण्डुलवारिणा । घृतेन सह पीतन्तु हरेत्सर्वाविषाणि च ॥ १,१९१.
नीलीलज्जालुकामूलं पिष्टं तण्डुलवारिणा । पीतं तद्दंशकविषं नश्येदेकेन वोभयोः ॥ १,१९१.
कूष्माण्डकस्य स्वरसः सगुडः सहशर्करः । पीतः सदुग्धो हन्याच्च दंशकस्यविषं च वै ॥ १,१९१.
तथा कोद्रवमूलस्य मोहस्य हर एव च । यष्टीमधुसमायुक्ता तथा पीता च शर्करा ॥ १,१९१.
सदुग्धा च त्रिरात्रेण मूषकानां विषं हरेत् । चुलुकत्रयपानाच्च वारिणः शीतलस्य वै ॥ १,१९१.
ताम्बूलदग्धमुखस्य लालास्त्रावो विनश्यति । घृतं सशर्करं षीत्वा मद्यपानमदो न वै ॥ १,१९१.
कृष्णाङ्कोलस्य मूलेन पीतं सुक्वथितं जलम् । ततो नश्यद्गरविषं त्रिरात्रेण महेश्वर ॥ १,१९१.
उष्णं गव्यघृतं चैव सैन्धवेन समन्वितम् । नाशयेत्तन्महादेव वेदनां वृश्चिकोद्भवाम् ॥ १,१९१.
कुसुभं कङ्कुमञ्चैव हरितालं मनः शिला । करञ्जं पिषितं चैव ह्यर्कमूलं च शङ्कर ॥ १,१९१.