पुष्पं धवलगुञ्जाया गृहीतं मूलमेव च । मुखे तु निहितं रुद्र हरेन्नानाविषं बहु ॥ १,१८९.
हस्ते बद्धं काण्डयुक्तं कण्ठे बद्धं ग्रहादिहृत् । कृष्णायान्तु चतुर्दश्यां कटिबद्धं समाहृतम् । सिंहादिश्वापदाद्भीतिं हरेच्च नीललोहित ॥ १,१८९.
विष्णुक्रान्तामूलमीश कर्णबद्धन्तु धारयेत् । पट्टसूत्रेण भूतेश मकरादिभयं न वै ॥ १,१८९.
श्रीगरुडमहापुराणम् १९० हरिरुवाच । अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् । पीतञ्चाशु हरत्येव गण्डमालां न संशयः ॥ १,१९०.
अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर । जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम् । शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत् ॥ १,१९०.
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली । वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत् ॥ १,१९०.
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् । तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ ॥ १,१९०.
इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः । निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥ १,१९०.
पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा । पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा ॥ १,१९०.
कदलीदलक्षारन्तु पानीयेन प्रसाधितम् । तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः ॥ १,१९०.
कदल्या मूलमादाय गुडाज्येन समन्वितम् । अग्निना साधितं जग्धमुदरस्थक्रिमीन्हरेत् ॥ १,१९०.
नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च । प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥ १,१९०.
हरीतकीविडङ्गञ्च हरिद्रा सितसर्षपाः । सोमराजस्य मूलानि करञ्जस्य च रौन्धवम् । गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि वै ॥ १,१९०.
एकश्च त्रिफलाभागस्तथा भागद्वयं शिवा । सोमराजस्य बीजानां जग्धं पथ्येन दद्रुनुत् ॥ १,१९०.
अम्लतक्रं सगोमूत्रं क्वथितं लवणान्वितम् । कांस्यघृष्टं खरं लेपात्कुष्ठदद्रुविनाशनम् ॥ १,१९०.
हरिद्रा हरितालश्च दूर्वागोमूत्रसैन्धवम् । अयं लेपो हन्ति दद्रुं पामानं च गरं तथा ॥ १,१९०.
सोम राजस्य बीजानि नवनीतयुतानि च । मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै । तक्रान्नपानतो रुद्र नात्र कार्या विचारणा ॥ १,१९०.
श्वेतापरा जितामूलं वर्तितं चास्य वारिणा । तल्लेपो रुद्र मासेन शुक्लकुष्ठविनाशनः ॥ १,१९०.
माहिषं नवनीतञ्च सिन्दूरं समरीचकम् । पामा विलेपनान्नश्येद्दुर्नामा वृषभध्वज ॥ १,१९०.
विशुष्कगाम्भारीमूलं पक्वं क्षीरेण संयुतम् । भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ॥ १,१९०.
मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै । पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति ॥ १,१९०.
कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा । रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः । तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ॥ १,१९०.
कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः । जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि ॥ १,१९०.
माहिषेण पुरीषेण वेष्टिता वृषभध्वज । अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर ॥ १,१९०.
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् । तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान् ॥ १,१९०.
मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया । अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च । सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥ १,१९०.
युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च । तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका ॥ १,१९०.
दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति । काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत् ॥ १,१९०.
मधुयष्टी शर्करा च वासकस्य रसो मधु । एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥ १,१९०.
रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु । प्रातः काले तोयपानात्पीनसं दारुणं हरेत् ॥ १,१९०.