यवभस्म विडङ्गञ्च गन्धपाषाणमेव च । शुण्ठिरेषाञ्चैव चूर्णं भ्वितं रुधिरेणवै ॥ १,१८८.
कृकलासस्य तल्लिप्तं विद्रधिं नाशयेच्छिव । सौभाञ्जनस्य बीजानि त्वतसीमसिना सह ॥ १,१८८.
सौरसर्षपयुक्तानि सर्वाण्येतानि शङ्कर । पिष्टान्यनम्लतक्रेण ग्रन्थिकं नाशयेद्धि वै ॥ १,१८८.
श्वेतापराजितामूलं पिष्टं तण्डुलवारिणा । तेन नस्यप्रदानात्स्याद्भूतवृन्दस्य विद्रवः ॥ १,१८८.
अगस्त्यपुष्पनस्यं वै समरीचं तु शूलहृत् । भुजङ्गचर्म वै हिङ्गु निम्बपत्रं तथा यवाः । गौरसर्षम एभिः स्याल्लेपो भूतहरः शिव ॥ १,१८८.
गोरोचना मरीचानि पिप्पली सैन्धवं मधु । अञ्जनं कृतमेभिः स्याद्ग्रहभूतहरं शिव ॥ १,१८८.
गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहहरो भवेत् । चातुर्थिकज्वरैर्मुक्तो कृष्णवस्त्रावगुण्ठितः ॥ १,१८८.
श्रीगरुडमहापुराणम् १८९ हरिरुवाच । श्वेतापराजितापुष्परसेनाक्ष्णोश्च पूरणे । पटलं नाशमायाति नात्र कार्या विचारणा ॥ १,१८९.
मूलं गोक्षुरकस्यैव चर्वित्वा नीललोहित । दन्तकीटव्यथा नश्येत्सुरासुरविमर्दन् ॥ १,१८९.
नारी पुष्पादिने पीत्वा गोक्षीरेणोपवासतः । श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥ १,१८९.
श्वेतार्कपुष्पं विधिना गृहीतं पूर्वमन्त्रितम् । ऋतुशुद्धा च ललना कटौ बद्ध्वा प्रसूयते ॥ १,१८९.
हस्तबद्धं पलाशस्य अपामार्गस्य वा हर । मूलं सर्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥ १,१८९.
पीतं वृश्चिकमूलञ्च प्रातः पर्युषिताम्बुना । सार्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ॥ १,१८९.
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकाहिनुत् । पीतं पर्युषिताद्भिश्च भवेत्सर्वविषापहृत् ॥ १,१८९.
यस्य लज्जालुकामूलं दीयते च स्वरेतसा । सार्धं स वैरं संयाति पुमान्स्त्री वा न संशयः ॥ १,१८९.
पिष्ट्वा गव्यघृतेनैव पाठामूलं पिबेत्तु यः । सर्वं विषं विनश्येच्च नात्र कार्या विचारणा ॥ १,१८९.
मूलं पर्युषितोदेन शिरीषस्य यथा तथा । रक्तचित्रकमूलस्य रसस्य भरणाद्धर । कर्णयोः कामलाव्याधिनाशः स्यान्नात्र संशयः ॥ १,१८९.
श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् । त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत् ॥ १,१८९.
नारिकेलस्य वै पुष्पं छागक्षीरेण संयुतम् । पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥ १,१८९.
कुर्यात्सुदर्शनामूलं माल्येन सुसमाहृतम् । कण्ठबद्ध त्र्याहिकादिग्रहभूतविनाशनम् ॥ १,१८९.
पुष्पं धवलगुञ्जाया गृहीतं मूलमेव च । मुखे तु निहितं रुद्र हरेन्नानाविषं बहु ॥ १,१८९.
हस्ते बद्धं काण्डयुक्तं कण्ठे बद्धं ग्रहादिहृत् । कृष्णायान्तु चतुर्दश्यां कटिबद्धं समाहृतम् । सिंहादिश्वापदाद्भीतिं हरेच्च नीललोहित ॥ १,१८९.
विष्णुक्रान्तामूलमीश कर्णबद्धन्तु धारयेत् । पट्टसूत्रेण भूतेश मकरादिभयं न वै ॥ १,१८९.
श्रीगरुडमहापुराणम् १९० हरिरुवाच । अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् । पीतञ्चाशु हरत्येव गण्डमालां न संशयः ॥ १,१९०.
अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर । जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम् । शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत् ॥ १,१९०.
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली । वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत् ॥ १,१९०.
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् । तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ ॥ १,१९०.
इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः । निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥ १,१९०.
पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा । पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा ॥ १,१९०.
कदलीदलक्षारन्तु पानीयेन प्रसाधितम् । तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः ॥ १,१९०.