द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा । गण्डमालां हरेल्लेपादसाध्यं गलगण्डकम् ॥ १,१८६.
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् । नाशयेत्पुरुषो व्याधीन्नात्र कार्या विचारणा ॥ १,१८६.
करवीरमूललेपाद्वै लेपात्पूगफलस्य च । पुंव्याधिर्नश्यते रुद्र योगमन्यं वदाम्यहम् ॥ १,१८६.
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् । भगन्दरविनाशः स्यादन्यं योगं वदाम्यहम् । जलौकाजग्धरक्तञ्च भगन्दरमुमापते ॥ १,१८६.
त्रिफलाजलघृष्टञ्च मार्जारास्थि विलेपितम् । ततो न प्रस्त्रवेद्रक्तं नात्र कार्या विचारणा ॥ १,१८६.
हरिद्रानेकवारञ्च स्नुहीक्षीरेण भाविता । वटिकार्ऽशोविनाशाय तल्लेपाद्वृषभध्वज । घोषाफलं सैन्धवञ्च पिष्ट्वा चार्शोहरं परम् ॥ १,१८६.
गव्याज्यं साधितं पीतं पलाशक्षारवारिणा । त्रिगुणेन त्रिकटुकं अर्शांसि क्षपयेच्छिव ॥ १,१८६.
बिल्वस्य च फलं दग्धं रक्तार्शः प्रविनाशनम् । जग्धवा कृष्णतिलानेव नवनीतयुतानपि ॥ १,१८६.
शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम् । अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज ॥ १,१८६.
शुण्ठ्या च क्वथितं वारि पीतं चाग्निं करोति वै । हरीतकीं सैन्धवञ्च चित्रकं रुद्र पिप्पली ॥ १,१८६.
चूर्णमुष्णोदकेनैषां पीतं चातिक्षुधाकरम् । साज्यं सूकरमांसं वै पीतं चातिक्षुधाकरम् ॥ १,१८६.
श्रीगरुडमहापुराणम् १८७ हरिरुवाच । हस्तिकर्णपलाशस्य पत्राणि? चूर्णयेद्धर । सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥ १,१८७.
सक्षीरं भक्षीतं कुर्यात्सप्ताहेन वृषध्वज । नरं श्रुतिधरं रुद्र मृगेन्द्रगतिविक्रमम् ॥ १,१८७.
पद्मरागप्रतीकाशंयुक्तं दशशतायुषा । षोडशाब्दाकृतिं रुद्र सततं दुग्धभोजनात् ॥ १,१८७.
मधुसर्पिःसमायुक्तं दुग्धमायुष्करं भवेत् । तज्जग्धं मधुना सार्धं दशवर्ष सहस्रिणम् ॥ १,१८७.
कुर्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् । दध्ना नित्यं भक्षितन्तु वज्रदेहकरं भवेत् ॥ १,१८७.
केशराजिसमायुक्तं नरं वर्षसहस्रिणम् । तच्च काञ्जिकसंयुक्तं नरं कुर्याच्च भक्षितम् ॥ १,१८७.
शतवर्षं दिव्यदेहं वलीपलितवर्जितम् । जग्धं त्रिफलया क्षौद्रं चक्षुष्मन्तं करोति वै ॥ १,१८७.
अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात् । महिषीक्षीरसंयुक्तस्तल्लेपः कृष्णकेशकृत् ॥ १,१८७.
खल्वाटस्य च वै केशा भवन्ति वृषभध्वज । तैलयुक्तेन चूर्णेन वलीपलितनाशनम् ॥ १,१८७.
तदुद्वर्तनमात्रेण सर्वरागः प्रमुच्यते । सच्छागक्षीरचूर्णेन दृष्टिः स्यान्मासतोऽञ्जनात् ॥ १,१८७.
पलाशस्य च बीजानि श्रावणे वितुषाणि च । गृहीत्वा नवनीतेन तेषां चूर्णं च भक्षयेत् ॥ १,१८७.
कर्षार्धमेकं सेवेत नत्वा नित्यं हरिं प्रभुम् । पुराणषष्टिधान्यस्य पथ्यमम्बु पिबन्हर । जीवेद्वर्षसहस्राणि वलीपलितवर्जितः ॥ १,१८७.
भृङ्गराजस्य वै मूलं पुष्यर्क्षे तु समाहृतम् । विधाय तस्य चूर्णं वै ससौवीरञ्च भक्षयेतं ॥ १,१८७.
मासमात्रप्रयोगेण वलीपलितवर्जितः । शतानि पञ्च जीवेच्च नरो नागबलो भवेत् । भवेच्छ्रुतिधरो रुद्र पुष्यर्क्षे चैव भक्षणात् ॥ १,१८७.
श्रीगरुडमहापुराणम् १८८ हरिरुवाच । निर्व्रणः स्यात्पूयंहीनो प्रहारो घृपूरितः । अपामार्गस्य वै मूलं हस्ताभ्याञ्च विमर्दितम् । तद्रसेन प्रहारस्य रक्तस्त्रावो न पूरणात् ॥ १,१८८.
रुद्र लाङ्गलिकामूलं चेक्षुदर्भस्तथैव च । तेन व्रणमुखं लिप्तं शल्यं निः स रति व्रणात् । चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥ १,१८८.
बालमूलं मेषशृङ्गीमूलं वा वारिघर्षितम् । तेन लिप्तं चिरं जातं व्रणं नाड्याः प्रशाम्यति ॥ १,१८८.
जग्धं माहिषपध्ना च युक्तं कोद्रवभक्तकम् । हिङ्गुमूलस्य वै चूर्णं दत्तं नाडीव्रणापहम् ॥ १,१८८.
ब्रह्मयष्टिफलं पिष्टं वारिणा तेनलेपितम् । तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥ १,१८८.