तन्मूत्रं सङ्खनाभिश्च चन्दनं घर्षयेत्ततः । एभिश्च वर्तिकां कृत्वा त्वक्षिणी चाञ्जयेत्ततः ॥ १,१८५.
नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम् । विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥ १,१८५.
पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् । सर्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥ १,१८५.
देवदारोश्च वै चूर्णं अजामत्रेण भावयेत् । एकविंशतिवारंवैत्वक्षिणी तेन चाञ्जयेत् । रात्र्यन्धता पटलता नश्येन्निर्लोमता तथा ॥ १,१८५.
पिप्पलीकेतकं रुद्र हरिद्रामलकं वचा । सर्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥ १,१८५.
काकजङ्घाशिग्रुमूले मुखेन विधृते शिव । चर्वित्वा दन्तकीटानां विनाशो हि भवेद्धर ॥ १,१८५.
श्रीगरुडमहापुराणम् १८६ हरिरुवाच । पीतः सारो गुडूच्याश्च मधुना च प्रमेहनुत् । पीतं गोहालिकामूलं तिलदध्याज्यसंयुतम् ॥ १,१८६.
निरुद्धमूत्रं क्वथितं निवर्तयति शङ्कर । तथा हिक्कां हरेत्पीतं सौवर्चलयुतञ्च वै ॥ १,१८६.
गोरक्षकर्कटीमूलं पिष्टं शीतोदकेन च । पीतं दिनत्रयेणैव नाशयेद्रुद्र शर्कराम् ॥ १,१८६.
पिष्ट्वा वै मालतीमूलं ग्रीष्मकाले समाहितम् । साधितं छागदुग्धेन पतिं शर्कस्यान्वितम् । हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥ १,१८६.
द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा । गण्डमालां हरेल्लेपादसाध्यं गलगण्डकम् ॥ १,१८६.
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् । नाशयेत्पुरुषो व्याधीन्नात्र कार्या विचारणा ॥ १,१८६.
करवीरमूललेपाद्वै लेपात्पूगफलस्य च । पुंव्याधिर्नश्यते रुद्र योगमन्यं वदाम्यहम् ॥ १,१८६.
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् । भगन्दरविनाशः स्यादन्यं योगं वदाम्यहम् । जलौकाजग्धरक्तञ्च भगन्दरमुमापते ॥ १,१८६.
त्रिफलाजलघृष्टञ्च मार्जारास्थि विलेपितम् । ततो न प्रस्त्रवेद्रक्तं नात्र कार्या विचारणा ॥ १,१८६.
हरिद्रानेकवारञ्च स्नुहीक्षीरेण भाविता । वटिकार्ऽशोविनाशाय तल्लेपाद्वृषभध्वज । घोषाफलं सैन्धवञ्च पिष्ट्वा चार्शोहरं परम् ॥ १,१८६.
गव्याज्यं साधितं पीतं पलाशक्षारवारिणा । त्रिगुणेन त्रिकटुकं अर्शांसि क्षपयेच्छिव ॥ १,१८६.
बिल्वस्य च फलं दग्धं रक्तार्शः प्रविनाशनम् । जग्धवा कृष्णतिलानेव नवनीतयुतानपि ॥ १,१८६.
शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम् । अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज ॥ १,१८६.
शुण्ठ्या च क्वथितं वारि पीतं चाग्निं करोति वै । हरीतकीं सैन्धवञ्च चित्रकं रुद्र पिप्पली ॥ १,१८६.
चूर्णमुष्णोदकेनैषां पीतं चातिक्षुधाकरम् । साज्यं सूकरमांसं वै पीतं चातिक्षुधाकरम् ॥ १,१८६.
श्रीगरुडमहापुराणम् १८७ हरिरुवाच । हस्तिकर्णपलाशस्य पत्राणि? चूर्णयेद्धर । सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥ १,१८७.
सक्षीरं भक्षीतं कुर्यात्सप्ताहेन वृषध्वज । नरं श्रुतिधरं रुद्र मृगेन्द्रगतिविक्रमम् ॥ १,१८७.
पद्मरागप्रतीकाशंयुक्तं दशशतायुषा । षोडशाब्दाकृतिं रुद्र सततं दुग्धभोजनात् ॥ १,१८७.
मधुसर्पिःसमायुक्तं दुग्धमायुष्करं भवेत् । तज्जग्धं मधुना सार्धं दशवर्ष सहस्रिणम् ॥ १,१८७.
कुर्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् । दध्ना नित्यं भक्षितन्तु वज्रदेहकरं भवेत् ॥ १,१८७.
केशराजिसमायुक्तं नरं वर्षसहस्रिणम् । तच्च काञ्जिकसंयुक्तं नरं कुर्याच्च भक्षितम् ॥ १,१८७.
शतवर्षं दिव्यदेहं वलीपलितवर्जितम् । जग्धं त्रिफलया क्षौद्रं चक्षुष्मन्तं करोति वै ॥ १,१८७.
अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात् । महिषीक्षीरसंयुक्तस्तल्लेपः कृष्णकेशकृत् ॥ १,१८७.
खल्वाटस्य च वै केशा भवन्ति वृषभध्वज । तैलयुक्तेन चूर्णेन वलीपलितनाशनम् ॥ १,१८७.