इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः । व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥ १,१८५.
तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत् । अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥ १,१८५.
अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् । तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् । अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥ १,१८५.
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि । शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥ १,१८५.
ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः । स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥ १,१८५.
सुसमाहितचित्तेन विन्यस्य प्रमदालये । सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥ १,१८५.
जुहुयादयुतं यस्तु शुचिः प्रयतमानसः । दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥ १,१८५.
मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम् । कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥ १,१८५.
भृङ्गराट्सहदेवा च वचा श्वेतापराजिता । तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥ १,१८५.
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः । यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया । स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥ १,१८५.
गोरोचना महादेव ! धातुशोणितभाविता । एतैर्वैतिलकं कृत्वा सा नरं यं निरीक्षते । तत्क्षणात्तं वशे कुर्या न्नात्र कार्या विचारणा ॥ १,१८५.
नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी । चन्दनं कुष्ठसूक्ष्मैलारक्तशालिसमन्विता ॥ १,१८५.
एतैर्धूपो वशकरः स्मरबाणैः स्मारार्दनः । रतिकाले महादेव पार्वतीप्रिय शङ्कर ॥ १,१८५.
निजशुक्रं गृही त्वा तु वामहस्तेन यः पुमान् । कामिनीचरणं वामं लिंपेत्स स्यात्स्त्रियाः प्रियः ॥ १,१८५.
सैन्धवञ्च महादेव पारावतमलं मधु । एभिर्लिप्ते तु लिङ्गे वै कामिनीवशकृद्भवेत् ॥ १,१८५.
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च । तत्तुल्यञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः । अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥ १,१८५.
हयगन्धा च मञ्जिष्ठा मालतीकुसुमानि च । श्वेतसषर्प एतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥ १,१८५.
मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् । अश्वगन्धानागबलागुडमाषनिषेविणः । रूपं भवेद्यथा तद्वन्नवयौवनचारिणाम् ॥ १,१८५.
लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा । मधुना सेवितं रुद्र परिणामाख्यशूलनुत् ॥ १,१८५.
क्वथितोदकपानन्तु शम्बूकक्षारकं तथा । मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् । पीत हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ॥ १,१८५.
हिङ्गु सौवर्चलं शुण्ठी वृषध्वज महौषधम्? । एभिस्तु क्वथितं वारि पीतं वै सर्वशूलनुत् ॥ १,१८५.
अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् । आस्वादि तमजीर्णस्य शूलस्य स्याद्विमर्दनम् ॥ १,१८५.
वटरोहाङ्कुरो रुद्र तण्डुलोदकघर्षितः । पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ॥ १,१८५.
अङ्कोटमूलं कर्षार्धं पिष्टं तण्डुलवारिणा । सर्वातीसारग्रहणीं पीतं हरति भूतप ॥ १,१८५.
मरीचशुण्ठिकुटजत्वक्चूर्णञ्च गुडान्वितम् । क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥ १,१८५.
श्वेतापराजितामूलं हरिद्रासिक्थतण्डुलाः । अपामार्गत्रिकटुकमेषाञ्च वटिका शिव । विषूचिकामहाव्याधिं हरत्येव न संशयः ॥ १,१८५.
त्रिफलागुरु भूतेश शिलाजतु हरीतकी । एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् । पीतं सर्वञ्च मेहन्तु क्षयं नयति शङ्कर ॥ १,१८५.
अर्कक्षीरप्रस्थमेकं तिलतैलं तथैव च । मनः शिलामरीचानां सिन्दूरस्य पलं पलम् ॥ १,१८५.
चूर्णं कृत्वा ताम्रपात्रे त्वातपैः शोषयेत्ततः । पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥ १,१८५.
त्रिकटुत्रिफलानक्तं तिलतैलं तथैव च । मनः शिला निम्बपत्रं जातीपुष्पमजापयः ॥ १,१८५.