पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् । लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥ १,१८४.
धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर । समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥ १,१८४.
वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते । शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति । विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥ १,१८४.
रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् । ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥ १,१८४.
चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् । तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् । चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥ १,१८४.
कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् । युद्धे विजयते सोऽपि महाशूरश्च जायते ॥ १,१८४.
दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् । तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥ १,१८४.
कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा । वसातैलसमायुक्तमेकत्र तन्नियोजयेत् । आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥ १,१८४.
कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च । मूषिकस्य वसास्थीनि शिशुमारवसा तथा । एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥ १,१८४.
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् । तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥ १,१८४.
कमलादिहरंपितं मुखरोगहरं तथा । जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत् ॥ १,१८४.
सतक्रं कुशमलं वा मर्कटी मूलमेव वा । काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥ १,१८४.
तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् । सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव ॥ १,१८४.
शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम् । बला चातिबला यष्टी शर्करा मधुसंयुता ॥ १,१८४.
वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा । श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम् ॥ १,१८४.
परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम् । निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत् ॥ १,१८४.
केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् । तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥ १,१८४.
मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् । वातपित्तजशूलानि हन्ति वै पानयोगतः । शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत् ॥ १,१८४.
श्रीगरुडमहापुराणम्
हरिरुवाच । आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥ १,१८५.
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः । व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥ १,१८५.
तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत् । अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥ १,१८५.
अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् । तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् । अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥ १,१८५.
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि । शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥ १,१८५.
ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः । स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥ १,१८५.
सुसमाहितचित्तेन विन्यस्य प्रमदालये । सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥ १,१८५.
जुहुयादयुतं यस्तु शुचिः प्रयतमानसः । दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥ १,१८५.
मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम् । कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥ १,१८५.
भृङ्गराट्सहदेवा च वचा श्वेतापराजिता । तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥ १,१८५.
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः । यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया । स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥ १,१८५.