रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् । कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा ॥ १,१८३.
श्रीगरुडमहापुराणम् १८४ हरिरुवाच । रजनीकदलीक्षारलेपः सिध्मविनाशनः । कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा । उष्णोदकेन संपीय कटिशूलविनाशनम् ॥ १,१८४.
अभया नवनीतञ्च शर्करापिप्पलीयुतम् । पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥ १,१८४.
आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् । चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥ १,१८४.
गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् । अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥ १,१८४.
लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् । यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥ १,१८४.
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च । सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः । अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥ १,१८४.
तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् । तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥ १,१८४.
लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः । ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥ १,१८४.
करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् । मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥ १,१८४.
हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः । विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम् ॥ १,१८४.
ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत् । त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम् ॥ १,१८४.
आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम् । हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत् ॥ १,१८४.
भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम् । घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः ॥ १,१८४.
विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा । रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम् ॥ १,१८४.
उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत् । योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः ॥ १,१८४.
नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति । योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः ॥ १,१८४.
पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी । बीजे नैषां जातिकाया रसेन रसमर्दनम् ॥ १,१८४.
मूषाय मध्यगं कृत्वा रसं मारणमीरितम् । मध्वाज्यसहितं दुग्धं वलीपलितनाशनम् ॥ १,१८४.
मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा । दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥ १,१८४.
पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् । लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥ १,१८४.
धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर । समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥ १,१८४.
वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते । शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति । विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥ १,१८४.
रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् । ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥ १,१८४.
चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् । तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् । चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥ १,१८४.
कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् । युद्धे विजयते सोऽपि महाशूरश्च जायते ॥ १,१८४.
दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् । तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥ १,१८४.
कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा । वसातैलसमायुक्तमेकत्र तन्नियोजयेत् । आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥ १,१८४.
कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च । मूषिकस्य वसास्थीनि शिशुमारवसा तथा । एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥ १,१८४.
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् । तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥ १,१८४.