पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् । आटरूपकमूलेन भगं नाभिं च लेपयेत् । सुखं प्रसूयते नारी नात्र कार्या विचारणा ॥ १,१८२.
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा । रक्तातिसारशमनं भवतीति वृषध्वज ! ॥ १,१८२.
श्रीगरुडमहापुराणम् १८३ हरिरुवाच । मरिचं शृङ्गवेरं च कुटजत्वचमेव च । पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर ! ॥ १,१८३.
पिप्पली पिप्पलीमूलं मरिचं तगरं वचा । देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥ १,१८३.
अनेनैव प्रयोगेण ह्यतिसारो विनश्यति । मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम् ॥ १,१८३.
हरीतकी समगुडा मधुना सह योजिता । विरेचनकरी रुद्र ! भवतीति न संशयः ॥ १,१८३.
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी । उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम् ॥ १,१८३.
हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् । ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् ॥ १,१८३.
अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् । गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच । वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत् ॥ १,१८३.
सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् । समूलां छागदुग्धेन अपस्मारहरं पिबेत् ॥ १,१८३.
अश्वगन्धाभये चैव उदकेन समं पिबेत् । रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा ॥ १,१८३.
हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत् । शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम् ॥ १,१८३.
गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम् । पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् । ओं हुं नम इति ॥ १,१८३.
श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् । ओं जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फटिति ॥ १,१८३.
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत् । चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा ॥ १,१८३.
ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम् । सर्वज्वराणां धूपोऽयं हरश्चातुर्थिकस्य च ॥ १,१८३.
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे । चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् । पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥ १,१८३.
पिप्पलीमधुपानाच्च तथा मधुरभोजनात् । प्लीहा विनश्यते रुद्र तथा सूरणसेवनात् ॥ १,१८३.
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् । प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ॥ १,१८३.
अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम् । सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ॥ १,१८३.
रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् । कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा ॥ १,१८३.
श्रीगरुडमहापुराणम् १८४ हरिरुवाच । रजनीकदलीक्षारलेपः सिध्मविनाशनः । कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा । उष्णोदकेन संपीय कटिशूलविनाशनम् ॥ १,१८४.
अभया नवनीतञ्च शर्करापिप्पलीयुतम् । पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥ १,१८४.
आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् । चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥ १,१८४.
गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् । अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥ १,१८४.
लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् । यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥ १,१८४.
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च । सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः । अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥ १,१८४.
तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् । तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥ १,१८४.
लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः । ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥ १,१८४.
करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् । मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥ १,१८४.