धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् । दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा ॥ १,१८२.
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् । क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत् ॥ १,१८२.
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् । भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ॥ १,१८२.
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च । लोमानि शातयत्येव नात्र कार्या विचारणा ॥ १,१८२.
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् । हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम् ॥ १,१८२.
शाल्मलीरसमादाय खरमूत्रे निधाय तम् । अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.
वायस्या उदरं गृह्य मण्डूकवसया सह । गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः । एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा । चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत् ॥ १,१८२.
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् । दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा । ओं अग्निस्तम्भनं कुरु कुरु ॥ १,१८२.
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर । जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥ १,१८२.
गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च । अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः ॥ १,१८२.
पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत् । कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥ १,१८२.
पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः । स्त्रिया पुंसा कृतो रुद्र ! तिलकोऽयं वशीकरः ॥ १,१८२.
ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः । यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत् ॥ १,१८२.
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! । ओं ह्रूं जः । मन्त्रोऽयं हरते रुद्र ! सर्ववृश्चिकजं विषम् ॥ १,१८२.
पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम् । मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥ १,१८२.
त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम् । एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ॥ १,१८२.
पारावतस्य चाक्षीणि हरितालं मनः शिला । एतद्योगाद्विषं हन्ति वैनतेय इवोरगान् ॥ १,१८२.
सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम् । वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ॥ १,१८२.
ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत् । नाशयेद्रुद्र ! गुल्मानि निरुद्धं रक्तमेव च ॥ १,१८२.
पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् । आटरूपकमूलेन भगं नाभिं च लेपयेत् । सुखं प्रसूयते नारी नात्र कार्या विचारणा ॥ १,१८२.
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा । रक्तातिसारशमनं भवतीति वृषध्वज ! ॥ १,१८२.
श्रीगरुडमहापुराणम् १८३ हरिरुवाच । मरिचं शृङ्गवेरं च कुटजत्वचमेव च । पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर ! ॥ १,१८३.
पिप्पली पिप्पलीमूलं मरिचं तगरं वचा । देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥ १,१८३.
अनेनैव प्रयोगेण ह्यतिसारो विनश्यति । मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम् ॥ १,१८३.
हरीतकी समगुडा मधुना सह योजिता । विरेचनकरी रुद्र ! भवतीति न संशयः ॥ १,१८३.
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी । उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम् ॥ १,१८३.
हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् । ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् ॥ १,१८३.
अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् । गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच । वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत् ॥ १,१८३.
सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् । समूलां छागदुग्धेन अपस्मारहरं पिबेत् ॥ १,१८३.