चातुर्थिकहरो धूपो डाकिनीज्वरनाशकः । अर्जुनस्य च पुष्पाणि भल्लातकविडङ्गके ॥ १,१८०.
बला चैव सर्जरसं सौवीरसर्षपास्तथा । सर्पयूकामक्षिकाणां धूमो मशकनाशनः ॥ १,१८०.
भूतलायाश्च चूर्णेन स्तम्भः स्याद्योनिपूरणात् । तेन लेपनतो योनौ भगस्तम्भस्तु जायते ॥ १,१८०.
श्रीगरुडमहापुराणम् १८१ हरिरुवाच । ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने । तथा पयः समायुक्तं चक्षुः शूलहरं परम् ॥ १,१८१.
हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला । कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम् ॥ १,१८१.
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः । नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥ १,१८१.
समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत् । श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥ १,१८१.
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् । तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः ॥ १,१८१.
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता । कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः ॥ १,१८१.
हरितालं शङ्खचूर्णं कदलीदलभस्मना । एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम् ॥ १,१८१.
लवणं हरितालञ्च तुम्बिन्याश्च फलानि च । लाक्षारससमायुक्तं लोमशातनमुत्तम् ॥ १,१८१.
सुधा च हरितालञ्च शङ्खभस्म मनः शिला । सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥ १,१८१.
तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम् । शङ्खमामलकं पत्रं धातक्याः कुसुमानि च ॥ १,१८१.
पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे । स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥ १,१८१.
श्रीगरुडमहापुराणम् १८२ हरिरुवाच । शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् । हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥ १,१८२.
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् । गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् । स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर ! ॥ १,१८२.
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् । भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम् ॥ १,१८२.
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली । घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः । कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर ! ॥ १,१८२.
यवास्तिलाश्वगन्धा च मुशली सरला गुडम् । एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत् ॥ १,१८२.
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः । परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥ १,१८२.
धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् । दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा ॥ १,१८२.
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् । क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत् ॥ १,१८२.
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् । भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ॥ १,१८२.
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च । लोमानि शातयत्येव नात्र कार्या विचारणा ॥ १,१८२.
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् । हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम् ॥ १,१८२.
शाल्मलीरसमादाय खरमूत्रे निधाय तम् । अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.
वायस्या उदरं गृह्य मण्डूकवसया सह । गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः । एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा । चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत् ॥ १,१८२.
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् । दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा । ओं अग्निस्तम्भनं कुरु कुरु ॥ १,१८२.
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर । जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥ १,१८२.