पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम् । एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा ॥ १,१७९.
श्रीगरुडमहापुराणम् १८० हरिरुवाच । वचा मांसी च बिल्वञ्च तगरं पद्मकेसरम् । नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् । अनेन धूपितो मर्त्यः कामवद्विचरेन्महीम् ॥ १,१८०.
कर्पूरं देवदारुञ्च मधुना सह योजयेत् । लिङ्गलेपाच्च तेनैव वशीकुर्यात्स्त्रियं किल ॥ १,१८०.
मैथुनं पुरुषो गच्छेद्गृह्णीयात्स्वकमिन्द्रियम् । वामहस्तेन वामञ्च हस्तं लिंपेत्तु यत्स्त्रियाः । आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥ १,१८०.
ओं रक्तचामुण्डे अमुकं मे वशमानय आनय ओं ह्रीं ह्रैं ह्रः फट् । इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर ! । गोरोचनासंयुतेन स्वरक्तेन वशी भवेत् ॥ १,१८०.
सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम् । मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनात् ॥ १,१८०.
यः पुमान्मैथुनं गच्छेन्नान्यां नारीं गमिष्यति । शङ्कपुष्पी वचा मांसी सोम राजी च फल्गुकम् ॥ १,१८०.
माहिषं नवनीतञ्च त्वकीकृत्य भिषग्वरः । समूलानि स पत्राणि क्षीरेणाज्येन पेषयेत् ॥ १,१८०.
गुटिकां शोधितां कृत्वा नारीयोन्या प्रवेशयेत् । दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥ १,१८०.
सर्षपाश्च वचा चैव मदनस्य फलानि च । मार्जारविष्ठा धत्तुर स्त्रीकेशेन समन्वितः ॥ १,१८०.
चातुर्थिकहरो धूपो डाकिनीज्वरनाशकः । अर्जुनस्य च पुष्पाणि भल्लातकविडङ्गके ॥ १,१८०.
बला चैव सर्जरसं सौवीरसर्षपास्तथा । सर्पयूकामक्षिकाणां धूमो मशकनाशनः ॥ १,१८०.
भूतलायाश्च चूर्णेन स्तम्भः स्याद्योनिपूरणात् । तेन लेपनतो योनौ भगस्तम्भस्तु जायते ॥ १,१८०.
श्रीगरुडमहापुराणम् १८१ हरिरुवाच । ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने । तथा पयः समायुक्तं चक्षुः शूलहरं परम् ॥ १,१८१.
हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला । कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम् ॥ १,१८१.
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः । नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥ १,१८१.
समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत् । श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥ १,१८१.
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् । तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः ॥ १,१८१.
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता । कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः ॥ १,१८१.
हरितालं शङ्खचूर्णं कदलीदलभस्मना । एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम् ॥ १,१८१.
लवणं हरितालञ्च तुम्बिन्याश्च फलानि च । लाक्षारससमायुक्तं लोमशातनमुत्तम् ॥ १,१८१.
सुधा च हरितालञ्च शङ्खभस्म मनः शिला । सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥ १,१८१.
तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम् । शङ्खमामलकं पत्रं धातक्याः कुसुमानि च ॥ १,१८१.
पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे । स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥ १,१८१.
श्रीगरुडमहापुराणम् १८२ हरिरुवाच । शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् । हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥ १,१८२.
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् । गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् । स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर ! ॥ १,१८२.
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् । भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम् ॥ १,१८२.
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली । घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः । कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर ! ॥ १,१८२.
यवास्तिलाश्वगन्धा च मुशली सरला गुडम् । एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत् ॥ १,१८२.
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः । परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥ १,१८२.