आरण्यस्य बिडालस्य गृहित्वा रुधिरं शुभम् । करञ्जतैले तद्भाव्यं रुद्राग्नौ कज्जलं ततः । पातयेत्पद्मपत्रेण हादृश्यः स्यात्तदञ्जनात् ॥ १,१७८.
ओं नमः खड्गवज्रपाणये महायक्षसेनापतये स्वाहा । ओं रुद्रं ह्रां ह्रीं वरशक्ता त्वरिताविद्या । ओं मातरः स्तम्भयस्वाहा । सहस्रं परिजप्यात्तु विद्येयं चौरवारिणी । महासुगन्धिकामूलं शुक्रं स्तम्भेत्कटौ स्थितम् ॥ १,१७८.
ओं नमः सर्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु स्वाहा । सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयच्च क्षणाद्वै सा वशे भवेत् ॥ १,१७८.
ब्रह्मदण्डीं वचां पत्रं मधुना सह पेषयेत् । अङ्गलेपाच्च वनिता नान्यं भर्तारमिच्छति ॥ १,१७८.
ब्रह्मदण्डीशिखा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् । मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥ १,१७८.
भृङ्गराजस्य मूलं तु पिष्टं शुक्रेण संयुतम् । अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नरं किल ॥ १,१७८.
अपराजिताशिखान्तु नीलोत्पलसमन्विताम् । ताम्बूलेन प्र (दाना) दद्याच्च वशीकरणमुत्तमम् ॥ १,१७८.
अङ्गुष्ठे च पदे गुल्फे जानौ च जघने तथा । नाभौ वक्षसि कुक्षौ च कक्षे कण्ठे कपोलके ॥ १,१७८.
ओष्ठे नेत्रे ललाटे च मूर्ध्नि चन्द्रकलाः स्थिताः । स्त्रीणां पक्षे सिते कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् ॥ १,१७८.
वामाङ्गे दक्षिणाङ्गे च क्रमाद्रुद्र द्रवादिकृत् । चतुः षष्टि कलाः प्रोक्ताः कामशास्त्रे वशीकराः । आलिङ्गनाद्या नारीणां कमारीणां वशीकराः ॥ १,१७८.
रोचनागन्धुपुष्पाणि निम्बपुष्पं प्रियङ्गवः । कुङ्कमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥ १,१७८.
ओं ह्रीं गौरि देवि सौभाग्यं पुत्रवशादि देहि मे । ओं ह्रीं लक्ष्मि ! देवि सौभाग्यं सर्वं त्रैलोक्यमोहनम् ॥ १,१७८.
सगन्धस्य हरिद्रायाः कुङ्कमानां च लेपतः । वशयेद्रुद्र धूपश्च तथापुष्पसुगन्धयोः ॥ १,१७८.
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी । तिलतैलेन संयुक्तं योनिलेपाद्वशी नरः ॥ १,१७८.
निम्बकाष्ठस्य धूमेन धूपयित्वा भगं वधूः । सुभगास्यात्साति रुद्र पतिर्दासो भविष्यति ॥ १,१७८.
माहिषं नवनीतञ्च कष्टञ्च मधुयष्टिका । सौभाग्यं भगलेपात्स्यात्पतिर्दासो भवेत्तथा ॥ १,१७८.
मधुयष्टिश्च गोक्षीरं तथा च कण्टकारिका । एतानि समभागानि पिबेदुष्णेन वारिणा । चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥ १,१७८.
मातुलुङ्गस्य बीजानि क्षीरेण सह भावयेत् । तत्पीत्वा लभते गर्भं नात्र कार्या विचारणा ॥ १,१७८.
मातुलुङ्गस्य बीजानि मूलान्येरण्डकस्य च । घृतेन सह संयोज्य पाययेत्पुत्रकाक्षिणी ॥ १,१७८.
पश्वगन्धा मृत दुग्ध क्वथितं मुत्रकारकम् । पलाशस्य तु बीजानि क्षौद्रेण सह पेषयेत् । रजस्वला तु पीत्वा स्यात्मुष्पगर्भविवर्जिता ॥ १,१७८.
श्रीगरुडमहापुराणम् १७९ हरिरुवाच । हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम् । जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत् ॥ १,१७९.
हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत् । दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः ॥ १,१७९.
मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् । कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति ॥ १,१७९.
अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः । निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति ॥ १,१७९.
प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः । मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च । पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात् ॥ १,१७९.
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम् । सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम् ॥ १,१७९.
सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम् । तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥ १,१७९.
मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः । पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः ॥ १,१७९.
कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात् । हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १,१७९.
विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम् । गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! । अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम् ॥ १,१७९.