शर्करामध्वजाक्षीरं तिलगोक्षुरकं समम् । स शत्रुं नाशयेद्रुद्र ! उच्चाटितमिदं हर ! ॥ १,१७७.
उलूककृष्णकाकस्य बिल्वस्याथ समिच्छतम् । रुधिरेण समायुक्तं ययोर्नाम्ना तु हूयते । तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः ॥ १,१७७.
भावितं ऋक्षदुग्धेन मत्स्यस्य रोहितस्य च । मांसं तत्साधितं तैलं तदभ्यङ्गाच्च रोगनुत् । चन्दनोदकनस्यात्तु रोमोत्थानं भवेत्पुनः ॥ १,१७७.
हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् । शरीरं येन स पुमान्वृद्धेर्दर्पं व्यपोहति ॥ १,१७७.
मयूररुधिरेणैव जीवं संहरते शिव । ज्वलतां तु भुजङ्गानां बिलस्थानामपीश्वर ॥ १,१७७.
देहश्चिताग्नौ दग्धश्च सर्पस्याजगरस्य हि । तद्भस्म संमुखे क्षिप्तं शत्रणां भङ्गकृद्भवेत् ॥ १,१७७.
मन्त्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः । ओं ठ ठ ठ चाहीहिचाहीहि स्वाहा । ओं उदरं पाहिहि पाहिहिस्वाहा ॥ १,१७७.
सुदर्शनाया मलं तु पुष्यर्क्षे तु समाहृतम् । निः क्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तत् ॥ १,१७७.
अर्कमूलेन रविणा अर्काग्निज्वलिता शिव । युक्ता सिद्धार्थतैलेन वर्तिर्मार्गाहिनाशिनी ॥ १,१७७.
मार्जारपललं विष्ठा हरितालं च भावितम् । छाग मूत्रेण तल्लिप्तो मूषिको मूषिकान्हरेत् ॥ १,१७७.
मुक्तो हि मन्दिरे रुद्र नात्र कार्या विचारणा । विफलार्जुनपुष्पाणि भल्लातकशिरीषकम् ॥ १,१७७.
लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपो मक्षिकाणां मशकाणां विनाशनः ॥ १,१७७.
श्रीगरुडमहापुराणम् १७८ हरिरुवाच । ब्रह्मदण्डीवचाकुष्ठं प्रियङ्गर्नागकेशरम् । दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् । ओं नारायण्यै स्वाहा ॥ १,१७८.
ताम्बूलं यस्य दीयेत स वशी स्यात्सुमन्त्रतः । ओं हरिः हरिः स्वाहा ॥ १,१७८.
गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया । चूर्णोकृत्य यस्य शिरे दीयते स वशी भवेत् । श्वेतसर्षपनिर्माल्यं यद्गृहे तद्विनाशकृत् ॥ १,१७८.
वैभी तकं शाखोटकं मूलं पत्रेण संयुतम् । स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥ १,१७८.
खञ्जरीटस्य मांसं तु मधुना सह पेषयेत् । ऋतुकालेयोनिलेपात्पुरुषो दासतामियात् ॥ १,१७८.
अगुरुं गुग्गुलुं चैव नीलोत्पलसमन्वितम् । गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ १,१७८.
श्वेताप राजितामूलं पिष्टं रोचनया युतम् । यं पश्येत्तिलकेनैव वशी कर्यान्नृपालये ॥ १,१७८.
काकजङ्घा वचा कुष्ठं निम्बपत्रं सुकुङ्कुमम् । आत्मरक्तसमायुक्तं वशी भवति मानवः ॥ १,१७८.
आरण्यस्य बिडालस्य गृहित्वा रुधिरं शुभम् । करञ्जतैले तद्भाव्यं रुद्राग्नौ कज्जलं ततः । पातयेत्पद्मपत्रेण हादृश्यः स्यात्तदञ्जनात् ॥ १,१७८.
ओं नमः खड्गवज्रपाणये महायक्षसेनापतये स्वाहा । ओं रुद्रं ह्रां ह्रीं वरशक्ता त्वरिताविद्या । ओं मातरः स्तम्भयस्वाहा । सहस्रं परिजप्यात्तु विद्येयं चौरवारिणी । महासुगन्धिकामूलं शुक्रं स्तम्भेत्कटौ स्थितम् ॥ १,१७८.
ओं नमः सर्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु स्वाहा । सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयच्च क्षणाद्वै सा वशे भवेत् ॥ १,१७८.
ब्रह्मदण्डीं वचां पत्रं मधुना सह पेषयेत् । अङ्गलेपाच्च वनिता नान्यं भर्तारमिच्छति ॥ १,१७८.
ब्रह्मदण्डीशिखा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् । मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥ १,१७८.
भृङ्गराजस्य मूलं तु पिष्टं शुक्रेण संयुतम् । अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नरं किल ॥ १,१७८.
अपराजिताशिखान्तु नीलोत्पलसमन्विताम् । ताम्बूलेन प्र (दाना) दद्याच्च वशीकरणमुत्तमम् ॥ १,१७८.
अङ्गुष्ठे च पदे गुल्फे जानौ च जघने तथा । नाभौ वक्षसि कुक्षौ च कक्षे कण्ठे कपोलके ॥ १,१७८.
ओष्ठे नेत्रे ललाटे च मूर्ध्नि चन्द्रकलाः स्थिताः । स्त्रीणां पक्षे सिते कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् ॥ १,१७८.
वामाङ्गे दक्षिणाङ्गे च क्रमाद्रुद्र द्रवादिकृत् । चतुः षष्टि कलाः प्रोक्ताः कामशास्त्रे वशीकराः । आलिङ्गनाद्या नारीणां कमारीणां वशीकराः ॥ १,१७८.