कटिबद्धं निम्बमूलमक्षिसूलहरं भवेत् । शणमूलं सताम्बूलं दग्धमिन्द्रियकस्य (ल्प) हृत् ॥ १,१७७.
अन्नस्विन्नहरिद्रा च श्वेतसर्षपमूलकम् । बीजानि मातुलुङ्गस्य एषामुद्वर्तनं समम् । सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ॥ १,१७७.
श्वेतापराजितापत्रं निम्बपत्ररसेन तु । नस्यदानाड्डाकिनीनां मातॄणां ब्रह्मरक्षसाम् । मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ॥ १,१७७.
मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् । श्वेतापराजितार्कस्य चित्रकस्य च मूलकम् । कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥ १,१७७.
पिप्पलीलोहचूर्णं तु शुण्ठीश्चामलकानि च । समानि रुद्र जानीयात्सैन्धवं मधुशर्करा ॥ १,१७७.
उदुम्बरप्रमाणेन सप्ताहं भक्षणात्समम् । पुमांश्च बलवान्स स्याज्जीवेद्वर्षशतद्वयम् । ओं ठ ठ ठ इति सर्ववश्यप्रयोगेषु प्रयुक्तः सर्वकामकृत् ॥ १,१७७.
संगृह्य विद्वान्काकस्य निलयं प्रदहेच्च तत् । चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ॥ १,१७७.
तमुच्चाटयते रुद्र शृणु तद्योगमुत्तमम् । निः क्षिप्तं च पुरीषं वै वनमूषिकचर्मणि ॥ १,१७७.
कटितन्तुनिबद्धं वै कुर्यान्मलनिरोधनम् । कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च ॥ १,१७७.
च्युतदले मध्यमध्ये ततो निः क्षिप्यते हर ! । स खाद्यते काकवृन्दैर्नारी पुरुष एव च ॥ १,१७७.
शर्करामध्वजाक्षीरं तिलगोक्षुरकं समम् । स शत्रुं नाशयेद्रुद्र ! उच्चाटितमिदं हर ! ॥ १,१७७.
उलूककृष्णकाकस्य बिल्वस्याथ समिच्छतम् । रुधिरेण समायुक्तं ययोर्नाम्ना तु हूयते । तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः ॥ १,१७७.
भावितं ऋक्षदुग्धेन मत्स्यस्य रोहितस्य च । मांसं तत्साधितं तैलं तदभ्यङ्गाच्च रोगनुत् । चन्दनोदकनस्यात्तु रोमोत्थानं भवेत्पुनः ॥ १,१७७.
हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् । शरीरं येन स पुमान्वृद्धेर्दर्पं व्यपोहति ॥ १,१७७.
मयूररुधिरेणैव जीवं संहरते शिव । ज्वलतां तु भुजङ्गानां बिलस्थानामपीश्वर ॥ १,१७७.
देहश्चिताग्नौ दग्धश्च सर्पस्याजगरस्य हि । तद्भस्म संमुखे क्षिप्तं शत्रणां भङ्गकृद्भवेत् ॥ १,१७७.
मन्त्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः । ओं ठ ठ ठ चाहीहिचाहीहि स्वाहा । ओं उदरं पाहिहि पाहिहिस्वाहा ॥ १,१७७.
सुदर्शनाया मलं तु पुष्यर्क्षे तु समाहृतम् । निः क्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तत् ॥ १,१७७.
अर्कमूलेन रविणा अर्काग्निज्वलिता शिव । युक्ता सिद्धार्थतैलेन वर्तिर्मार्गाहिनाशिनी ॥ १,१७७.
मार्जारपललं विष्ठा हरितालं च भावितम् । छाग मूत्रेण तल्लिप्तो मूषिको मूषिकान्हरेत् ॥ १,१७७.
मुक्तो हि मन्दिरे रुद्र नात्र कार्या विचारणा । विफलार्जुनपुष्पाणि भल्लातकशिरीषकम् ॥ १,१७७.
लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपो मक्षिकाणां मशकाणां विनाशनः ॥ १,१७७.
श्रीगरुडमहापुराणम् १७८ हरिरुवाच । ब्रह्मदण्डीवचाकुष्ठं प्रियङ्गर्नागकेशरम् । दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् । ओं नारायण्यै स्वाहा ॥ १,१७८.
ताम्बूलं यस्य दीयेत स वशी स्यात्सुमन्त्रतः । ओं हरिः हरिः स्वाहा ॥ १,१७८.
गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया । चूर्णोकृत्य यस्य शिरे दीयते स वशी भवेत् । श्वेतसर्षपनिर्माल्यं यद्गृहे तद्विनाशकृत् ॥ १,१७८.
वैभी तकं शाखोटकं मूलं पत्रेण संयुतम् । स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥ १,१७८.
खञ्जरीटस्य मांसं तु मधुना सह पेषयेत् । ऋतुकालेयोनिलेपात्पुरुषो दासतामियात् ॥ १,१७८.
अगुरुं गुग्गुलुं चैव नीलोत्पलसमन्वितम् । गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ १,१७८.
श्वेताप राजितामूलं पिष्टं रोचनया युतम् । यं पश्येत्तिलकेनैव वशी कर्यान्नृपालये ॥ १,१७८.
काकजङ्घा वचा कुष्ठं निम्बपत्रं सुकुङ्कुमम् । आत्मरक्तसमायुक्तं वशी भवति मानवः ॥ १,१७८.