शीतोदकसमायुक्तं लेपात्सन्तापनाशनम् । शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥ १,१७७.
शृकशैवालमन्थश्च शुण्ठीपापाणभेदकम् । शौवाञ्जनं गोक्षुरं वा वरुणच्छन्नमेव च ॥ १,१७७.
सौभाञ्जनस्य मूलं च एतैः क्वथितवारि च । दत्त्वा हिङ्गुयवक्षारं पीतं वातविनाशनम् ॥ १,१७७.
पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव । वार्येतैः क्वथितं पीतं वरशूलापहारकृत् ॥ १,१७७.
अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका । एतया मर्दनाद्रुद्र ऊरुस्तम्भः प्रशाम्यति ॥ १,१७७.
बृहतीकस्य वै मूलं संपिष्टमुदकेन च । पीतं संघातवातस्य विपाटनकृदेव च ॥ १,१७७.
पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च । हरेत्झिञ्जिनीवातं?वै वृक्षमिन्द्राशनिर्यथा ॥ १,१७७.
अस्थिसंहारमेकेन भक्तेन सह वादितम् । पतिं मांसरसेनापि वातनुच्चास्थिभङ्गनुत् ॥ १,१७७.
घृतलिप्तं सशुष्कं च छागीक्षीरेण संयुतम् । तल्लोपात्पादयार्नंश्येत्सक्षेप्ये चात्र संशयः ॥ १,१७७.
मध्वाज्यसैन्धवं सिक्थं गुडकैरिकगुग्गुलैः । ससर्जरसस्फुटितः क्लोमशुद्धिश्च लेपनात् ॥ १,१७७.
कटुतैलेन लिप्तो वै विधूमाग्नौ प्रतापितः । मृत्तिकारखादितः पादः समः स्याद्वृषभध्वज ॥ १,१७७.
सर्जरसाः सिक्थकं च जीरकं च हरीतकी । उत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥ १,१७७.
तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम् । अग्निदग्धव्रणं नश्येद्ब्रहुशः कृतलेपतः ॥ १,१७७.
नवनीतं माहिषं च दग्धपिष्टतिलानि च । सभल्लाकं व्रणं नश्येद्धृच्छूलं नस्यलेपनात् ॥ १,१७७.
कर्पूरगव्यसर्पिर्भ्यां प्रहारः पूरितो हर । शस्त्रोद्भवः सबद्धश्च शुक्लवर्णेन शङ्कर ! । पाकं च वेदनां चैव संस्पृशेद्वृषभध्वज ॥ १,१७७.
आम्र (तस्य) मूलरसेनैव शस्त्रघातः प्रपूरितः । ढौकते शस्त्रघाताभ्यां निर्व्रणो घृपूरितः ॥ १,१७७.
शरपुङ्खा लज्जालुका पाठा चैषां तु मूलकम् । जलपिष्टं तस्य लेपाच्छस्त्रघातः प्रशाम्यति ॥ १,१७७.
मूलं च काकजङ्घायास्त्रिरात्रेणैव शोषितः । पाकपूतिं वेदनां च हन्ति वै रोहितो व्रणे ॥ १,१७७.
सजलं तिलतैलं च अपामार्गस्य मूलकम् । तत्सेकदानान्नश्येच्च प्रहारोद्भववेदना ॥ १,१७७.
अभयां सैन्धवं शुण्ठीमेतत्पिष्ट्वोदकेन तु । भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥ १,१७७.
कटिबद्धं निम्बमूलमक्षिसूलहरं भवेत् । शणमूलं सताम्बूलं दग्धमिन्द्रियकस्य (ल्प) हृत् ॥ १,१७७.
अन्नस्विन्नहरिद्रा च श्वेतसर्षपमूलकम् । बीजानि मातुलुङ्गस्य एषामुद्वर्तनं समम् । सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ॥ १,१७७.
श्वेतापराजितापत्रं निम्बपत्ररसेन तु । नस्यदानाड्डाकिनीनां मातॄणां ब्रह्मरक्षसाम् । मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ॥ १,१७७.
मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् । श्वेतापराजितार्कस्य चित्रकस्य च मूलकम् । कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥ १,१७७.
पिप्पलीलोहचूर्णं तु शुण्ठीश्चामलकानि च । समानि रुद्र जानीयात्सैन्धवं मधुशर्करा ॥ १,१७७.
उदुम्बरप्रमाणेन सप्ताहं भक्षणात्समम् । पुमांश्च बलवान्स स्याज्जीवेद्वर्षशतद्वयम् । ओं ठ ठ ठ इति सर्ववश्यप्रयोगेषु प्रयुक्तः सर्वकामकृत् ॥ १,१७७.
संगृह्य विद्वान्काकस्य निलयं प्रदहेच्च तत् । चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ॥ १,१७७.
तमुच्चाटयते रुद्र शृणु तद्योगमुत्तमम् । निः क्षिप्तं च पुरीषं वै वनमूषिकचर्मणि ॥ १,१७७.
कटितन्तुनिबद्धं वै कुर्यान्मलनिरोधनम् । कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च ॥ १,१७७.
च्युतदले मध्यमध्ये ततो निः क्षिप्यते हर ! । स खाद्यते काकवृन्दैर्नारी पुरुष एव च ॥ १,१७७.