रक्तवन्दनमञ्जिष्ठालक्षाणां कर्षकेण वा । यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृत् ॥ १,१७७.
शुण्ठीपिप्पलिचूर्णं तु गुडूची कण्टकारिका । एभिश्च क्वथितं वारि पीतं चाग्निं करोति वै ॥ १,१७७.
वातशूलक्षयं चैव कगेति प्रथमेश्वर । करञ्जपर्पटोशीरं बहती कटुरोहिणी ॥ १,१७७.
गोक्षुरं क्वथितं त्वभिर्वारि पीतं श्रमापहन् । दाहं पित्तं ज्वरं शोषं मूर्छां चैव क्षयं नयेत् ॥ १,१७७.
मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् । पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥ १,१७७.
क्वाथौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च । वयोऽनुरूयतो ज्ञेयो विशेषो वृषभध्वज ॥ १,१७७.
दुग्धं पीतं तु संयुक्तं गोपुरीषरसेन च । विषमज्वरनुत्स्याच्च काकजन्धारसस्तथा ॥ १,१७७.
मशुण्ठि क्वथितं क्षीग्मजाया ज्वरनुद्भवेत् । यष्टीमधुकमुस्तं च सैन्धवं बृहतीफलम् ॥ १,१७७.
एतैर्नस्वप्रिदानाच्च निद्रा स्यात्पुरुपस्य च । मरीचप्रध्वश्वलालानस्यान्निद्रा भवेच्छिव ॥ १,१७७.
मूलं तु काकजङ्घाया निद्राकृत्स्याच्छिरस्थितम् । सिद्धं तैलं काञ्जिकेन तथा सर्जरसेन च ॥ १,१७७.
शीतोदकसमायुक्तं लेपात्सन्तापनाशनम् । शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥ १,१७७.
शृकशैवालमन्थश्च शुण्ठीपापाणभेदकम् । शौवाञ्जनं गोक्षुरं वा वरुणच्छन्नमेव च ॥ १,१७७.
सौभाञ्जनस्य मूलं च एतैः क्वथितवारि च । दत्त्वा हिङ्गुयवक्षारं पीतं वातविनाशनम् ॥ १,१७७.
पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव । वार्येतैः क्वथितं पीतं वरशूलापहारकृत् ॥ १,१७७.
अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका । एतया मर्दनाद्रुद्र ऊरुस्तम्भः प्रशाम्यति ॥ १,१७७.
बृहतीकस्य वै मूलं संपिष्टमुदकेन च । पीतं संघातवातस्य विपाटनकृदेव च ॥ १,१७७.
पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च । हरेत्झिञ्जिनीवातं?वै वृक्षमिन्द्राशनिर्यथा ॥ १,१७७.
अस्थिसंहारमेकेन भक्तेन सह वादितम् । पतिं मांसरसेनापि वातनुच्चास्थिभङ्गनुत् ॥ १,१७७.
घृतलिप्तं सशुष्कं च छागीक्षीरेण संयुतम् । तल्लोपात्पादयार्नंश्येत्सक्षेप्ये चात्र संशयः ॥ १,१७७.
मध्वाज्यसैन्धवं सिक्थं गुडकैरिकगुग्गुलैः । ससर्जरसस्फुटितः क्लोमशुद्धिश्च लेपनात् ॥ १,१७७.
कटुतैलेन लिप्तो वै विधूमाग्नौ प्रतापितः । मृत्तिकारखादितः पादः समः स्याद्वृषभध्वज ॥ १,१७७.
सर्जरसाः सिक्थकं च जीरकं च हरीतकी । उत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥ १,१७७.
तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम् । अग्निदग्धव्रणं नश्येद्ब्रहुशः कृतलेपतः ॥ १,१७७.
नवनीतं माहिषं च दग्धपिष्टतिलानि च । सभल्लाकं व्रणं नश्येद्धृच्छूलं नस्यलेपनात् ॥ १,१७७.
कर्पूरगव्यसर्पिर्भ्यां प्रहारः पूरितो हर । शस्त्रोद्भवः सबद्धश्च शुक्लवर्णेन शङ्कर ! । पाकं च वेदनां चैव संस्पृशेद्वृषभध्वज ॥ १,१७७.
आम्र (तस्य) मूलरसेनैव शस्त्रघातः प्रपूरितः । ढौकते शस्त्रघाताभ्यां निर्व्रणो घृपूरितः ॥ १,१७७.
शरपुङ्खा लज्जालुका पाठा चैषां तु मूलकम् । जलपिष्टं तस्य लेपाच्छस्त्रघातः प्रशाम्यति ॥ १,१७७.
मूलं च काकजङ्घायास्त्रिरात्रेणैव शोषितः । पाकपूतिं वेदनां च हन्ति वै रोहितो व्रणे ॥ १,१७७.
सजलं तिलतैलं च अपामार्गस्य मूलकम् । तत्सेकदानान्नश्येच्च प्रहारोद्भववेदना ॥ १,१७७.
अभयां सैन्धवं शुण्ठीमेतत्पिष्ट्वोदकेन तु । भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥ १,१७७.