गुञ्जामूलं छागमूत्रे घृष्टं तिमिरनुच्च तत्रौप्यताम्रसुवर्णानां हस्तघृष्टशलाकया ॥ १,१७७.
घृष्टमुद्वर्तनं रुद्र कामलाव्याधिनाशनम् । घोषाफलमपाघ्रातं पीतकामलनाशनम् ॥ १,१७७.
दूर्वादाडिमपुष्पं तु अलक्तकहरीतकी । नासार्शवातरक्तनुन्नस्याद्वै स्वरसेन हि ॥ १,१७७.
आपिष्ट्वा जाङ्गली मू (तू) लं तद्रसेन वृषध्वज । नस्यादाराद्विनश्येत नाशार्शो नीललोहित ॥ १,१७७.
गव्यं घृतं सर्जरसं रुद्र धन्याकसैन्धवम् । धुत्तूरकं गैरिकं च एतैः साधितसिक्थकम् ॥ १,१७७.
सतैलं व्रणनुत्स्याच्च स्फुटितोद्धटिताधरे । जातीपत्रं च चर्वित्वा विधृतं मुखरोगनुत् ॥ १,१७७.
भक्षात्केसरबीजस्य दन्ताः स्युश्चलिताःस्थिराः । मुष्टकं कुष्ठमेला च यष्टिकं मधुवालकम् ॥ १,१७७.
धन्याकमेतददनान्मुखदुर्गन्धनुद्धर । कषायं कटुकं वापि तिक्तशाकस्य भक्षणात् ॥ १,१७७.
तलयुक्तस्य नित्यं स्यान्मुखदुर्गन्धताक्षयः । दन्तव्रणानि सर्वाणि क्षयं गच्छन्त्यनेन तु ॥ १,१७७.
काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः । ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥ १,१७७.
परित्यक्तश्लेष्मणश्च शुण्ठीचर्वणतो यथा । मातुलुङ्गदलान्येला यष्टी मधु च पिप्पली ॥ १,१७७.
जातीपत्रमथैषां च चूर्णं लीढ्वा तथा कृतम् । शेफालिकजटायाश्च चर्वणं गलशुण्ठिनुत् ॥ १,१७७.
नासाशिरारक्तकर्षान्नश्येच्छंशकर जिह्विका । रसः शिरीषबीजानां हरिद्रायाश्चतुर्गुणः ॥ १,१७७.
तेन पक्वेन भूतेश नस्यं मस्तकरोगनुत् । गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥ १,१७७.
दन्तकीटविनाशः म्याद्गुञ्जामूलस्य चर्वणात् । काकजङ्घास्नुहीनीलीकवायो मधुमोजितः ॥ १,१७७.
दन्ताक्रान्तान्दन्तजांश्च कृमीन्नाशयते शिव । घतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥ १,१७७.
तेन चाम्यङ्गितादन्ताः कुर्युः कटकटान्न हि । लिप्त्वा कर्कटपादेन केवलेनाथवाशिव ॥ १,१७७.
त्रिसप्ताहं वाः पिष्टानि ज्योतिष्मत्याः फलानि हि । शुक्लाभयामज्जलेपाद्दन्तस्याङ्ककलङ्कनुत् ॥ १,१७७.
लोध्रकुङ्कुममञ्जिष्ठालोहका लेयकानि च । यवतण्डुलमेतैश्च यष्टी मधुसमन्वितैः ॥ १,१७७.
वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत् । द्विभागं छागदुग्धेन तैलप्रस्थं तु साधितम् ॥ १,१७७.
रक्तवन्दनमञ्जिष्ठालक्षाणां कर्षकेण वा । यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृत् ॥ १,१७७.
शुण्ठीपिप्पलिचूर्णं तु गुडूची कण्टकारिका । एभिश्च क्वथितं वारि पीतं चाग्निं करोति वै ॥ १,१७७.
वातशूलक्षयं चैव कगेति प्रथमेश्वर । करञ्जपर्पटोशीरं बहती कटुरोहिणी ॥ १,१७७.
गोक्षुरं क्वथितं त्वभिर्वारि पीतं श्रमापहन् । दाहं पित्तं ज्वरं शोषं मूर्छां चैव क्षयं नयेत् ॥ १,१७७.
मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् । पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥ १,१७७.
क्वाथौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च । वयोऽनुरूयतो ज्ञेयो विशेषो वृषभध्वज ॥ १,१७७.
दुग्धं पीतं तु संयुक्तं गोपुरीषरसेन च । विषमज्वरनुत्स्याच्च काकजन्धारसस्तथा ॥ १,१७७.
मशुण्ठि क्वथितं क्षीग्मजाया ज्वरनुद्भवेत् । यष्टीमधुकमुस्तं च सैन्धवं बृहतीफलम् ॥ १,१७७.
एतैर्नस्वप्रिदानाच्च निद्रा स्यात्पुरुपस्य च । मरीचप्रध्वश्वलालानस्यान्निद्रा भवेच्छिव ॥ १,१७७.
मूलं तु काकजङ्घाया निद्राकृत्स्याच्छिरस्थितम् । सिद्धं तैलं काञ्जिकेन तथा सर्जरसेन च ॥ १,१७७.