विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् । सचतुर्गुणगोमूत्रं मनसः शिलमेव वा ॥ १,१७६.
शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् । नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम् ॥ १,१७६.
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज । भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम् ॥ १,१७६.
नीली च करवीरं च गुडमेतैः समं शृतम् । पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम् ॥ १,१७६.
आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् । जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७६.
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् । अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥ १,१७६.
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा । शतपुष्पा देवदारु एभिस्तैलं तु साधितम् ॥ १,१७६.
गोपुरीपरसेनैव चतुर्भागेन संयुतम् । तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत् ॥ १,१७६.
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव । कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च ॥ १,१७६.
मालतीपुप्पदलयो रसेन भरणात्तथा । गोजलेनैव पूरेण पूयस्त्रावो विनश्यति ॥ १,१७६.
कष्ठमाषमरीचानि तगरं मधु पिप्पली । अपामार्गोऽश्वगन्धा च बृहती सितसर्षपाः ॥ १,१७६.
यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् । लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् । कटुतैलं भल्लातकं बृहती फलदाडिमम् ॥ १,१७६.
वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते ॥ १,१७६.
श्रीगरुडमहापुराणम् १७७ हरिरुवाच । सोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः । भ (च) रणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥ १,१७७.
अशीतितिलपुष्पाणि जात्याश्च कुसुमापि च । उषानिम्बामलाशुण्ठीपिप्पलीतण्डुलीयकम् ॥ १,१७७.
छायासुष्कां वटीं कुर्यात्पिष्ट्वा तण्डुलवारिणा । मधुना सहसा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥ १,१७७.
बिभीतकास्थिमज्जा तु शङ्खनाभिर्मनः शिला । निम्बपत्रमरीचा नि अजामूत्रेण पेषयेत् ॥ १,१७७.
पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा । चतुर्भागानि शङ्खस्य तदर्धेन मनः शिला ॥ १,१७७.
सैन्धवं च तदर्धेनत्वेतत्पिष्ट्वादकेन तु । छायाशुष्कां तु वटिकां कृत्वा नयनमञ्जयेत् ॥ १,१७७.
तिमिरं पटलं हन्ति पिचिटं च महौषधम् । त्रिकटु त्रिफलां चैव करं जस्य फलानि च ॥ १,१७७.
सैन्धवं रजनीद्वे व भृङ्गराजरसेन हि । पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥ १,१७७.
आटरूषकमूलं तु काञ्जिकापिष्टमेव तु । तेनाक्षिबूमिलेपाच्च चक्षुः शूलं विनश्यति ॥ १,१७७.
सतक्रं बदरीमूलं पीतं वाक्षिव्यथां हरेत् । सैन्धंवं कटुतैलं च अपामार्गस्य मूलकम् ॥ १,१७७.
क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे तु तेन च । अञ्जनात्पिञ्जटस्यैव नाशो भवति शङ्कर ॥ १,१७७.
ओं दद्रु सर क्रों ह्रीं ठः ठः दद्रु सर ह्रीं ह्रीं ओं उं ऊ सर क्रीं क्रीं ठः ठः । आद्या हि वशामायान्ति मन्त्रेणानेन चाञ्जनात् ॥ १,१७७.
बिल्वकनीलिकामूलं पिष्टमभ्यञ्जनेन च । अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ॥ १,१७७.
कटुकं (पिप्पली) तगरं चैव हरिद्रामलकं वचा । खदिरपिष्टवात्तश्च अञ्जनान्नेत्ररोगनुत् ॥ १,१७७.
नीरपूर्णमुखो धौति बृहन्मानेन योऽक्षिणी । प्रभाते नेत्ररोगैश्च नित्यं सर्वैः प्रमुच्यते ॥ १,१७७.
शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम् । छगदग्धसेकमौष्ण्याच्चक्षुषोर्वातशलनत् ॥ १,१७७.
चन्दनं सैन्धवं वृद्धपालाशश्च हरीतकी । पटलं कुसुमं नीली च (व) क्रिकां हरतेऽञ्जनम् ॥ १,१७७.