दुरालभैश्चैव घृतं पित्तज्वरहरः शृणु । शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः ॥ १,१७५.
साज्यः क्वाथः श्लेष्मजं तु सशुण्ठिः सदुरालभः । सवालकः सर्वज्ज्वरं सशुण्ठिः सहपर्पटः ॥ १,१७५.
किराततिक्तैर्नारीगुडूचीशुण्ठिमुस्तकैः । पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम् ॥ १,१७५.
वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः । ज्वरनुच्च कृतः क्वाथस्तथा वै सुरदारुणा ॥ १,१७५.
धन्याकनिम्बमुस्तानां समधुः स तु शङ्कर । पटोलपत्रयुक्तस्तु गुडूचीत्रिफलायुतः ॥ १,१७५.
पीतोऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम् । हरीतकीपिप्लीनामामलीचित्रकोद्भवम् ॥ १,१७५.
चूर्णं ज्वरं च क्वथितं धान्य (धन्या) कोशीरपपर्पटैः । आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम् ॥ १,१७५.
समस्तज्वरनुच्च स्यात्सन्निपातहरं शृणु । हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा ॥ १,१७५.
कषायं कटुरोहिण्या सपटोलं सपत्रकम् । त्रिदोषज्वरनुच्चस्यात्पीतं तु क्वथितं जलम् ॥ १,१७५.
कण्टकार्या नागरस्य गुडूच्या पुष्करेण च । जग्ध्वा नागबलाचूर्णं श्वसकासादिनुद्भवेत् ॥ १,१७५.
कफवातज्वरे देयं जलमुष्णं पिपासिने । विश्वपर्पटकोशीरमुस्तचन्दनसाधितम् ॥ १,१७५.
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् । बिल्वादिप पञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥ १,१७५.
पाचनं पिप्पलीमूलं गुडृचीविश्वभेषजम् । वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः ॥ १,१७५.
पित्तज्वरघ्नः समधुः क्वाथः पर्पटनिम्बयोः । विधाने क्रियमाणेऽपि य्सय संज्ञा न जायते ॥ १,१७५.
पादयोस्तु ललाटे वा दहेल्लौहशलाकया । तिक्ता पाठा पर्पटाश्च विशाला त्रिफला त्रिवृत् । सक्षीरो भेदनः क्वाथः सर्वज्वरविशोधनः ॥ १,१७५.
श्रीगरुडमहापुराणम् १७६ श्रीभगवानुवाच । सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः । दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात् ॥ १,१७६.
भृङ्गराजरसेनैव चतुर्भागेन साधितम् । केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥ १,१७६.
एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् । गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत् ॥ १,१७६.
आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च । करञ्जामलकैलाललाक्षालेपोऽरुणापहः ॥ १,१७६.
आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै । बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च ॥ १,१७६.
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् । सचतुर्गुणगोमूत्रं मनसः शिलमेव वा ॥ १,१७६.
शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् । नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम् ॥ १,१७६.
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज । भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम् ॥ १,१७६.
नीली च करवीरं च गुडमेतैः समं शृतम् । पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम् ॥ १,१७६.
आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् । जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७६.
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् । अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥ १,१७६.
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा । शतपुष्पा देवदारु एभिस्तैलं तु साधितम् ॥ १,१७६.
गोपुरीपरसेनैव चतुर्भागेन संयुतम् । तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत् ॥ १,१७६.
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव । कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च ॥ १,१७६.
मालतीपुप्पदलयो रसेन भरणात्तथा । गोजलेनैव पूरेण पूयस्त्रावो विनश्यति ॥ १,१७६.