जलमुष्णं घृते देयं पृथक्तैले तु शस्यते । सेनेहे पित्ते तु तृष्णायां पिबेदुष्णोदकं नरः ॥ १,१७३.
वातानुलोमं दीप्ताग्रर्वर्चः स्निग्धस्य तन्मतम् । रूक्षम्य स्नेदृनं कार्यमभिस्निग्धस्य रूक्षणम् ॥ १,१७३.
श्यामाककोरदोषान्नतक्रपिण्याकसकुभिः । वातश्लेष्माणि वाते वा कफे वा स्वेद इष्यते । न स्वेदयेदतिम्थूलरूक्षदुर्वलमूर्छितान् ॥ १,१७३.
श्रीगरुडमहापुराणम् १७४ धन्वतरिरुवाच । घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् । शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्चला ॥ १,१७४.
अभया च गुडूची च अटरूपकवागुजी । एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १,१७४.
कण्टकार्या रसप्रस्थक्षीरप्रस्थममन्वितम् । एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ १,१७४.
त्रिफलाचित्रकबलानिर्गुण्डी निम्बवासकाः । पुनर्नवा गुडूची च बृहती च शतावरी ॥ १,१७४.
एतैर्घृतं यथालाभं सर्वरोगविमर्दनम् । बलाशतकषाये तु तैलस्यार्धाढकं पचेत् । कल्कैर्मधूकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ १,१७४.
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः । गन्धाश्वजीवनीयैश्च क्षीराढकसमाश्रितम् ॥ १,१७४.
एतन्मृद्वग्निना पक्वं स्थापयेद्राजते शुभे । सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ १,१७४.
तैलमेतत्प्रशमयेद्वल्याक्यं राजवल्लभम् । शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ १,१७४.
शतपुष्पं देवदारु मांसी शैलेयकं बला । चन्दनं तगरं कुष्टं मनः शिला ज्योतिष्मती ॥ १,१७४.
एतैः कर्षसमैः कल्कैः घृतप्रस्थं विपाचयेत् । कुव्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् ॥ १,१७४.
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने । जराजर्जरगात्राणां चाध्मानमुख शोषिणाम् ॥ १,१७४.
त्वग्गताश्चापि ये वाता शिरास्नायुगताश्च ये । सर्वांस्तान्नाशयत्याशु तैलं रोगकुलान्तकम् ॥ १,१७४.
नारायणमिदं तैलं विष्णुनोक्तं रुगर्दनम् । पृथक्तैलं घृतं कुर्यात्समस्तैरौषधैः पृथक् ॥ १,१७४.
शतावर्या गुडूच्या वा चित्रकै गोचनान्वितैः । निर्गुण्ड्या वा प्रसारः स्यात्कण्टकार्या रसादिभिः ॥ १,१७४.
वर्षाभूवालया वापि वासकन फलत्रिकैः । ब्राहया चैग्ण्डकेनापि भृङ्गराजेन कुष्टिना ॥ १,१७४.
मुसल्या दशमूलेन खदिरेण वटादिभिः । वटिका मोदको वापि चूर्ण स्यात्सर्वरोगनुत् ॥ १,१७४.
घृतेन मधुना वापि अद्भिः खण्डगुडादिभिः । लवणैः कटुकैर्युक्तं यथालाभं च गेगनुत् ॥ १,१७४.
चित्रकार्कत्रिवृद्वापि यवानीहयमारकम् । सुधां च बालां गणिकां सप्तपर्णसुवर्चिकाम् ॥ १,१७४.
ज्योतिष्मतीञ्च संभृत्य तैलं धीरो विपाचयेत् । एतन्निष्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥ १,१७४.
शोधनं गेपणं चैव सर्ववर्णकरं परम् । चित्रकाद्यं महातैलं सर्वरोगप्रभञ्जनम् ॥ १,१७४.
अजमोदं ससिन्दूरं हरितालं निशाद्वयम् । क्षारद्वयं फेनयुतमार्द्रक सर (शवः लोद्भवम् ॥ १,१७४.
इन्द्रवारुण्यपामार्गकदलैः स्यन्दनैः समम् । एभिः सर्षपजं तैलमजामूत्रैश्चयोजितम् ॥ १,१७४.
मृद्वग्निना पचेदेत्गव्यक्षीरेण संयुतम् । अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ १,१७४.
विदग्धस्तु पचेत्पक्वं चैव विशोधयेत् । रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥ १,१७४.
श्रीगरुडमहापुराणम् १७५ रुद्र उवाच । एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह । हरिः पुनर्हरायाह नानायोगान्रुगर्दनान् ॥ १,१७५.
हरिरुवाच । सर्वज्वरेषु प्रथमं कार्यं शङ्कर लङ्घनम् । क्वथितोदकपानं च तथा निर्वातसेवनम् ॥ १,१७५.
अग्निस्वेदाज्ज्वरास्त्वेवं नाशमायान्तिहीश्वर । वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च ॥ १,१७५.