हरिद्राकुष्ठलवणं मेषशृङ्गिबलाद्वयम् । कच्छुरा सल्लकी पाठा पुनर्नवा शतावरी ॥ १,१७३.
अग्नि मन्थो ब्रह्मदण्डी श्वदंष्ट्रैरण्डके तथा । यवकोलकुलत्थादिकर्षाशी दशमूलकम् । पृथक्समस्तो वातातोर्बहुपित्तहरस्तथा ॥ १,१७३.
शतावरी विदारी च बालकोशीरचन्दनम् । दूर्वा वटः पिप्पली च बदरी सल्लकी तथा ॥ १,१७३.
कदली चोत्पलं पद्ममुदुम्बरपटोलकन् । अथ श्लेष्महरो वर्गो हरिद्रागुडकुष्ठकम् ॥ १,१७३.
शतपुष्पी च जाती च व्योषारग्वधलाङ्गली । सर्पिस्तैलवसामज्जाः स्नेहेषु प्रवरं स्मृतम् ॥ १,१७३.
तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् । केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥ १,१७३.
देयं बहुकफे वापि व्योषक्षारसमायुतम् । ग्रन्थिनाडीकृमिस्लेष्ममेदोमारुतरोगिषु ॥ १,१७३.
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु । वातातपाम्बुभारस्त्रीव्यायामक्षीणधातुषु ॥ १,१७३.
रूक्षक्लेशक्षयात्याग्निवाता वृतपथेषु । अथ दग्ध्वा शिराजालं योनिकर्म शिरोरुजि (जम् ) ॥ १,१७३.
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे । जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च ॥ १,१७३.
जलमुष्णं घृते देयं पृथक्तैले तु शस्यते । सेनेहे पित्ते तु तृष्णायां पिबेदुष्णोदकं नरः ॥ १,१७३.
वातानुलोमं दीप्ताग्रर्वर्चः स्निग्धस्य तन्मतम् । रूक्षम्य स्नेदृनं कार्यमभिस्निग्धस्य रूक्षणम् ॥ १,१७३.
श्यामाककोरदोषान्नतक्रपिण्याकसकुभिः । वातश्लेष्माणि वाते वा कफे वा स्वेद इष्यते । न स्वेदयेदतिम्थूलरूक्षदुर्वलमूर्छितान् ॥ १,१७३.
श्रीगरुडमहापुराणम् १७४ धन्वतरिरुवाच । घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् । शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्चला ॥ १,१७४.
अभया च गुडूची च अटरूपकवागुजी । एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १,१७४.
कण्टकार्या रसप्रस्थक्षीरप्रस्थममन्वितम् । एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ १,१७४.
त्रिफलाचित्रकबलानिर्गुण्डी निम्बवासकाः । पुनर्नवा गुडूची च बृहती च शतावरी ॥ १,१७४.
एतैर्घृतं यथालाभं सर्वरोगविमर्दनम् । बलाशतकषाये तु तैलस्यार्धाढकं पचेत् । कल्कैर्मधूकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ १,१७४.
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः । गन्धाश्वजीवनीयैश्च क्षीराढकसमाश्रितम् ॥ १,१७४.
एतन्मृद्वग्निना पक्वं स्थापयेद्राजते शुभे । सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ १,१७४.
तैलमेतत्प्रशमयेद्वल्याक्यं राजवल्लभम् । शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ १,१७४.
शतपुष्पं देवदारु मांसी शैलेयकं बला । चन्दनं तगरं कुष्टं मनः शिला ज्योतिष्मती ॥ १,१७४.
एतैः कर्षसमैः कल्कैः घृतप्रस्थं विपाचयेत् । कुव्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् ॥ १,१७४.
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने । जराजर्जरगात्राणां चाध्मानमुख शोषिणाम् ॥ १,१७४.
त्वग्गताश्चापि ये वाता शिरास्नायुगताश्च ये । सर्वांस्तान्नाशयत्याशु तैलं रोगकुलान्तकम् ॥ १,१७४.
नारायणमिदं तैलं विष्णुनोक्तं रुगर्दनम् । पृथक्तैलं घृतं कुर्यात्समस्तैरौषधैः पृथक् ॥ १,१७४.
शतावर्या गुडूच्या वा चित्रकै गोचनान्वितैः । निर्गुण्ड्या वा प्रसारः स्यात्कण्टकार्या रसादिभिः ॥ १,१७४.
वर्षाभूवालया वापि वासकन फलत्रिकैः । ब्राहया चैग्ण्डकेनापि भृङ्गराजेन कुष्टिना ॥ १,१७४.
मुसल्या दशमूलेन खदिरेण वटादिभिः । वटिका मोदको वापि चूर्ण स्यात्सर्वरोगनुत् ॥ १,१७४.
घृतेन मधुना वापि अद्भिः खण्डगुडादिभिः । लवणैः कटुकैर्युक्तं यथालाभं च गेगनुत् ॥ १,१७४.