श्रीगरुडमहापुराणम् १७३ धन्वन्तरिरुवाच । द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम् । शालिषष्टिकगोधृमक्षीरं घृतं रसा मध ॥ १,१७३.
मज्जाशृङ्गाटकयवकशेर्विवारुगीक्षुरम् । गम्भगी पौष्करं बीजं द्राक्षा खर्जूरकं बला ॥ १,१७३.
नारिकलेक्ष्वात्मणुप्ता विदारी च प्रियालकम् । मधुकं तालकष्माण्डं मुख्योऽयं मधुरो गणः ॥ १,१७३.
मूर्छादाहप्रशमनः पडिन्द्रियप्रसादनः । कृमिकृत्कफकृच्चैव एकोऽत्यर्थ निपेवितः ॥ १,१७३.
श्वासकासाम्यमाधुर्यस्वरघातार्वुदानि च । गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ १,१७३.
दाडिमामलकाम्रं च कपित्थकरमर्दकौ । मातुलुङ्गाम्रातकं च बदरं तिन्तडीफलम् ॥ १,१७३.
दधि तक्रं काञ्जिकं च लकुचं चाम्लवे तसम् । अम्लो लोणः शुण्ठीयुक्तो जारणः पाचनो रसः ॥ १,१७३.
क्लेदनो वातकृद्धृप्यो विदाही चानुलोमनः । अम्लोऽत्यर्थं सेव्यमानः कुर्याद्धै दन्तहर्षकम् ॥ १,१७३.
शरीरस्य च शैतिल्यं स्वरकण्ठास्यहृद्दहेत् । छिन्नभिन्नव्रणादीनि पाचयित्वाग्निभावितः ॥ १,१७३.
लवणानि यवक्षारसर्जिकादिश्च लावणः । शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ १,१७३.
मार्गरोधी मार्दवकृत्स एकः परिषेवितः । गात्रकण्डूकोष्ठशोथवैवर्ण्यं जनयेद्रसः । रक्तवातं पित्तरक्तं पुंस्त्वेन्द्रियरुजादिकम् ॥ १,१७३.
व्योषशिग्रूमूलकं देवदारु च कुष्ठकम् । लशुनं वल्गुजी फलं मुस्तागुग्गुलुलाङ्गली ॥ १,१७३.
कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत् । स्थौल्यालस्यक्रिमिहरः शुक्रमेदोविरोधनः । एकोऽत्यर्थं सेव्यमानः भ्रमदाहादिकृद्भवेत् ॥ १,१७३.
कृतमालः कीराणि हरिद्रेन्द्रयवास्तथा । स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥ १,१७३.
गुडूची चद्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि । कारवेल्लकवार्ताकुकरवीरकवासकाः ॥ १,१७३.
रोहिणी शङ्खचूर्णं च कर्कोटो वै जयन्तिका । जातीवारुणकं निम्बो ज्योतिष्मती पुनर्नवा ॥ १,१७३.
तिक्तो रसश्छेदनः स्याद्रोचनी दीपनस्तथा । शोधनो ज्वरतृष्णाघ्नो मूर्छाकण्ठार्तिकादिजित् ॥ १,१७३.
विण्मूत्रक्लेदसंशोषो ह्यत्यर्थं स च सेवितः । हनुस्तम्भाक्षेपकार्तिशिरः शूलब्रणादिकृत् ॥ १,१७३.
त्रिफलासल्लकीजम्बु आम्रातकवचादिकम् । तिन्दुकं वकुलं शालं पालङ्कीमुद्गचिल्लकम् ॥ १,१७३.
कषायो ग्राहको रोपी स्तम्भनक्लेदशोषणः । एकोऽत्यर्थं सेव्यमानो हृदये चाथ पीडकः । मुखशोषज्वराध्मानमन्यास्तम्भादिकारकः ॥ १,१७३.
हरिद्राकुष्ठलवणं मेषशृङ्गिबलाद्वयम् । कच्छुरा सल्लकी पाठा पुनर्नवा शतावरी ॥ १,१७३.
अग्नि मन्थो ब्रह्मदण्डी श्वदंष्ट्रैरण्डके तथा । यवकोलकुलत्थादिकर्षाशी दशमूलकम् । पृथक्समस्तो वातातोर्बहुपित्तहरस्तथा ॥ १,१७३.
शतावरी विदारी च बालकोशीरचन्दनम् । दूर्वा वटः पिप्पली च बदरी सल्लकी तथा ॥ १,१७३.
कदली चोत्पलं पद्ममुदुम्बरपटोलकन् । अथ श्लेष्महरो वर्गो हरिद्रागुडकुष्ठकम् ॥ १,१७३.
शतपुष्पी च जाती च व्योषारग्वधलाङ्गली । सर्पिस्तैलवसामज्जाः स्नेहेषु प्रवरं स्मृतम् ॥ १,१७३.
तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् । केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥ १,१७३.
देयं बहुकफे वापि व्योषक्षारसमायुतम् । ग्रन्थिनाडीकृमिस्लेष्ममेदोमारुतरोगिषु ॥ १,१७३.
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु । वातातपाम्बुभारस्त्रीव्यायामक्षीणधातुषु ॥ १,१७३.
रूक्षक्लेशक्षयात्याग्निवाता वृतपथेषु । अथ दग्ध्वा शिराजालं योनिकर्म शिरोरुजि (जम् ) ॥ १,१७३.
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे । जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च ॥ १,१७३.