ज्वरस्यान्तेऽभयां चैकां प्रभुङ्क्ते द्वे विभीतके । भुक्त्वा मध्वाज्यधात्रीणां चतुष्कं शतवर्षकृत् ॥ १,१७२.
पीताश्वगन्धा पयसा घृतेनाशेपरोगनुत् । मण्डूकपर्ण्याः स्वरसो विदार्याश्चामृतोपमः ॥ १,१७२.
तिलधात्रीभृङ्गराजौ जग्ध्वा वर्षशती भवेत् । त्रिकटु त्रिफला वह्निर्गुडूची च शतावरी ॥ १,१७२.
विडङ्गलोहचूर्णं तु मधुना सह रोगनुत् । त्रिफला च कणा शुण्ठी गुडूची च शतावरी ॥ १,१७२.
विडङ्गभृङ्गराजादि भावितं सर्वरोगनुत् । चूर्णं विदार्या मध्वाज्यं लीढ्वा दश स्त्रियो व्रजेत् ॥ १,१७२.
घृतं शतावरीकल्कैः क्षीरैर्दशगुणैः पचेत् । शर्करापिप्पलीक्षौद्रयुक्तं वा जारकं विदुः ॥ १,१७२.
प्रतिमर्षोऽवपीडश्च नस्यं प्रवपनं तथा । शिरोविरेचनं चेति पञ्चकर्म च कथ्यते ॥ १,१७२.
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः । अग्निसेवामधुक्षीरविकृतीः परिपेवयेत् ॥ १,१७२.
स्त्रीयुक्तः शिशिरे तद्वद्वसन्ते न दिवा स्वपेत् । त्यजेद्वर्षासु स्वप्नादीञ्छरदिन्दोश्च रश्मयः ॥ १,१७२.
पथ्यानि शालयो मुद्रा वर्षाम्भः क्वथितं पयः । निम्वातसीकुसुम्भानां शिग्रुसर्षपयोस्तथा ॥ १,१७२.
ज्योतिष्मतीमूलकानां तैलानि च हरन्ति हि । कृमिकुष्ठप्रमेहांश्च वातश्लेष्मशिरोरुजः ॥ १,१७२.
दाडिमामलकीकोलकरमर्द्पियालकम् । जम्बीरं नागग्गं च आम्रातककपिन्थकम् ॥ १,१७२.
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणिच । जलं जीमूतकेक्ष्वाकुकुटजाकृतबन्धनम् ॥ १,१७२.
धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी । पूर्वाह्ने वमनायेते मदनेन्द्रयवी वचा ॥ १,१७२.
मृदुकोष्टश्च पित्तेन खरो वातकफाश्रयात् । मध्यमः समदोषे स्यात्त्रिवृत्तिते विरेचनम् ॥ १,१७२.
शर्करामधुसंयुक्तं सैन्धवं नगरं त्रिवृत् । हरीतकीविहङ्गानि गोमूत्रेण विरेचनम् ॥ १,१७२.
एरण्डतैलं त्रिफलाक्वाथश्च द्विगुणस्तथा । वातोल्बणेषु दोषेषु भोजयित्वाथ वामयेत् ॥ १,१७२.
वंशादिनेत्रं कुर्वीत पडष्टद्वादशाङ्गुलम् । कर्कन्धृफलवच्छिद्रं वस्तिरुत्तानशायिने ॥ १,१७२.
निरूहदानेऽपि विधिरयमेवमुदीरितः । अर्धत्रिपट्पले मात्रा लघुमध्योत्तमः क्रमात् ॥ १,१७२.
पथ्याक्षवात्र्योकद्विचतुर्भाग रुगर्दनाः । शतवर्यसृताभृङ्गसिन्धुवारादिभाविताः ॥ १,१७२.
श्रीगरुडमहापुराणम् १७३ धन्वन्तरिरुवाच । द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम् । शालिषष्टिकगोधृमक्षीरं घृतं रसा मध ॥ १,१७३.
मज्जाशृङ्गाटकयवकशेर्विवारुगीक्षुरम् । गम्भगी पौष्करं बीजं द्राक्षा खर्जूरकं बला ॥ १,१७३.
नारिकलेक्ष्वात्मणुप्ता विदारी च प्रियालकम् । मधुकं तालकष्माण्डं मुख्योऽयं मधुरो गणः ॥ १,१७३.
मूर्छादाहप्रशमनः पडिन्द्रियप्रसादनः । कृमिकृत्कफकृच्चैव एकोऽत्यर्थ निपेवितः ॥ १,१७३.
श्वासकासाम्यमाधुर्यस्वरघातार्वुदानि च । गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ १,१७३.
दाडिमामलकाम्रं च कपित्थकरमर्दकौ । मातुलुङ्गाम्रातकं च बदरं तिन्तडीफलम् ॥ १,१७३.
दधि तक्रं काञ्जिकं च लकुचं चाम्लवे तसम् । अम्लो लोणः शुण्ठीयुक्तो जारणः पाचनो रसः ॥ १,१७३.
क्लेदनो वातकृद्धृप्यो विदाही चानुलोमनः । अम्लोऽत्यर्थं सेव्यमानः कुर्याद्धै दन्तहर्षकम् ॥ १,१७३.
शरीरस्य च शैतिल्यं स्वरकण्ठास्यहृद्दहेत् । छिन्नभिन्नव्रणादीनि पाचयित्वाग्निभावितः ॥ १,१७३.
लवणानि यवक्षारसर्जिकादिश्च लावणः । शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ १,१७३.