बदरीपत्रसंलेपाद्योनिर्भिन्ना प्रशाम्यति । लोध्रतुम्बीफलालेपाद्योनेर्दार्ढ्यं करोति च ॥ १,१७२.
पञ्चपल्लवपिष्टाह्वमालतीकुसुमैर्घृतम् । रविपक्वमसृग्धारं योनिगन्धविनाशनम् ॥ १,१७२.
सकाञ्जिकं जपापुष्पपुष्पं ज्योतिष्मतीदलम् । दूर्वापिष्टं च संप्राश्य चित्रकं शर्करान्वितम् ॥ १,१७२.
धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत् । सदुग्धा लक्ष्मणा पीता नस्याद्वा पुत्रदा ऋतौ ॥ १,१७२.
दुग्धस्यार्धाढकं चाज्यमश्वगन्धा च पुत्रदा । वन्ध्या पुत्रं लभेत्पीत्वा घृतेन व्योपकेसरम् ॥ १,१७२.
कुशकाशोरुचृकानां मृलैर्गोक्षुरकस्य च । शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ १,१७२.
पाठालाङ्गलिसिंहाम्यमयूरकूटजैः पृथक् । नाभिबस्ति भगालेपात्सुखं नारी प्रसूयते ॥ १,१७२.
सूताया हृच्छिरोबस्तिशूलमर्कन्द (क्वल्ल) संज्ञितम् । यवक्षारं पिबेत्तत्र मस्तु कोष्णोदकेन वा ॥ १,१७२.
दशमूलीकृतः क्ताथः साज्यः मूतिरुजापहः । शातिलण्डुलचूर्णं तु सदुग्धं दुग्धकृद्भवेत् ॥ १,१७२.
विदारी कन्दस्वरसं मूलं कार्पासजं तथा । धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूपरसाशिनी ॥ १,१७२.
कुष्ठा वचाभया ब्राह्मी मधुरा क्षौद्रसर्पिषा । वर्णायुः कान्तिजननं लेह्यं वालम्य दापयेत् ॥ १,१७२.
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिवेत् । स्वेदनं नाग्निशोफार्ते मृदा स्यादग्नितप्तया ॥ १,१७२.
लेहो मुस्तविपायाश्च वमिकासज्वरे पिबेत् । सुस्तशुण्ठीविषाविल्वकूटजैरतिसारनुत ॥ १,१७२.
मधु व्योषं मातुलुङ्गं हिक्काच्छर्दिनिवारणम् । कुष्ठेन्द्रयवसिद्धार्था निशा दूर्वा च कुष्ठजित् ॥ १,१७२.
महामुण्जितिकोजीच्यकाथैः स्नानं ग्रहापहम् । सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥ १,१७२.
शङ्खाब्जबीजरुद्राक्षवचालौहादिधारणम् । ओं कं टं यं गं वैनतेयाय नमः । ओं हों हां हः मन्त्रेण शान्तिर्वालानां मार्जनाद्वलिदानतः । ओं ह्रीं बालम्रहाद्वलिं गृह्णीत वालं मुञ्चत स्वाहा ॥ १,१७२.
तण्डुलाद्भिः शिरीपस्य पलं पीतं विषापहम् । तण्डुलाद्भिश्च वर्षाभ्वाः शुक्लायाः सर्पदंशनुत् ॥ १,१७२.
दध्याज्यं तण्डुलीयं च गृहधृमो निशा तथा । पिष्टं पानं तथा क्षौद्रं सिन्धृत्थस्य विपान्तकम् ॥ १,१७२.
अङ्कोटमूलनिष्क्वाथः साज्यः पीतो विषान्तकः । यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥ १,१७२.
सिन्दूत्यरार्कराशुण्ठीकणामधुगुडैः क्रमात् । वर्षादिष्वभया सेव्या रसायनगुणौषिणा ॥ १,१७२.
ज्वरस्यान्तेऽभयां चैकां प्रभुङ्क्ते द्वे विभीतके । भुक्त्वा मध्वाज्यधात्रीणां चतुष्कं शतवर्षकृत् ॥ १,१७२.
पीताश्वगन्धा पयसा घृतेनाशेपरोगनुत् । मण्डूकपर्ण्याः स्वरसो विदार्याश्चामृतोपमः ॥ १,१७२.
तिलधात्रीभृङ्गराजौ जग्ध्वा वर्षशती भवेत् । त्रिकटु त्रिफला वह्निर्गुडूची च शतावरी ॥ १,१७२.
विडङ्गलोहचूर्णं तु मधुना सह रोगनुत् । त्रिफला च कणा शुण्ठी गुडूची च शतावरी ॥ १,१७२.
विडङ्गभृङ्गराजादि भावितं सर्वरोगनुत् । चूर्णं विदार्या मध्वाज्यं लीढ्वा दश स्त्रियो व्रजेत् ॥ १,१७२.
घृतं शतावरीकल्कैः क्षीरैर्दशगुणैः पचेत् । शर्करापिप्पलीक्षौद्रयुक्तं वा जारकं विदुः ॥ १,१७२.
प्रतिमर्षोऽवपीडश्च नस्यं प्रवपनं तथा । शिरोविरेचनं चेति पञ्चकर्म च कथ्यते ॥ १,१७२.
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः । अग्निसेवामधुक्षीरविकृतीः परिपेवयेत् ॥ १,१७२.
स्त्रीयुक्तः शिशिरे तद्वद्वसन्ते न दिवा स्वपेत् । त्यजेद्वर्षासु स्वप्नादीञ्छरदिन्दोश्च रश्मयः ॥ १,१७२.
पथ्यानि शालयो मुद्रा वर्षाम्भः क्वथितं पयः । निम्वातसीकुसुम्भानां शिग्रुसर्षपयोस्तथा ॥ १,१७२.