अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः 15.
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च 15.
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च 15.
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः 15.
गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः 15.
राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः 15.
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च 15.
अनन्तरूपो भूतस्थो देवदानवसंस्थितः 15.
जगत्स्थश्चैव जागर्त्ता स्थानं जागरितं तथा 15.
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः 15.
भुवनाधिपतिश्चैव भुवनानां नियामकः 15.
परमानन्दरूपी च धर्म्माणां च प्रवर्त्तकः 15.
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा 15.
अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः 15.
पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा 15.
नदी नन्दी च नन्दीशो भारतस्तरुनाशनः 15.
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा 15.
भरतो जनको जन्यः सर्वाकारवि वर्जितः 15.
इति नामसहस्त्रं ते वृषभध्वज कीर्त्तितम् 15.
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् 15.
पुनर्ध्यानं समाचक्ष्व शंखचक्रगदाधर 16.
हरिरुवाच दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् ।। 16.
अक्षरं सर्वगं नित्यं महद्ब्रह्मास्ति केवलम् 16.
सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम् 16.
अलेपकं तथा मुक्तं मुक्तयोगिविचिन्तितम् 16.
वागिन्द्रियविहीनं च प्राणिधर्म्मविवर्जितम् पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम् ।। 16.
मनोविरहितं तद्वन्मनोधर्म्मविवर्जितम् 16.
अहंकारविहीनं वै बुद्धिधर्म्मविवर्जितम् 16.
व्यानाख्यवायुहीनं वै प्राणधर्म्मविवर्जितम् पुनः सूर्य्यर्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा ।। 16.
ॐ खखोल्काय नमः 16.