हरिद्रादारुसिन्धूत्थपथ्याजनवगौरिकैः । पिष्टैर्दत्तो बहिर्लपो नेत्रव्याधिनिवारकः ॥ १,१७१.
मृतभ्रष्टाभयालेपात्त्रिफला क्षीरसंयुता । शुण्ठीनिम्बदलैः पिष्टैः सुखोष्णैः स्वल्पसैन्धवैः । धार्यश्चक्षुषि संक्षेपाच्छोथकण्डूरुजापहः ॥ १,१७१.
अभयाक्षामृतं चैकद्विचतुर्भागिकं युतम् । मध्वाज्यलीढं क्वाथो वा सर्वनेत्ररुगर्दनम् ॥ १,१७१.
चन्दनत्रिफलापूगपलाशतरुमूलकैः । जलपिष्टैरियं विर्तिरशेषतिमिरापहा ॥ १,१७१.
दध्नातिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्जनम् । त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥ १,१७१.
तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे । पिप्पलीत्रिफला द्राक्षालोहचूर्णं ससैन्धवम् ॥ १,१७१.
भृङ्गराजरसैर्घृष्टं घुटिकाञ्जनमिष्यते । आन्ध्यं सतिमिरं काचं हन्त्यन्यान्नेत्ररोगकान् ॥ १,१७१.
त्रिकटु त्रिफला नक्त सैन्धवं च मनः शिला । रुचकं शङ्खनाभिश्च जातीपुष्पाणि निम्बकम् ॥ १,१७१.
रसाञ्जनं भृङ्गराजं घृतं मधु पयस्तथा । एतत्पिष्ट्वा च वटिका सर्वनेत्ररुगर्दिनी ॥ १,१७१.
दग्धमेरण्डकं मूलं लेपात्काकिकपेषितम् । शिरोऽर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दक (ज) म् ॥ १,१७१.
शतमूल्यैरण्डमूलचक्राव्याघ्रीपलैः शृतम् । तैलं नस्यमरुश्लेष्मतिमिरोर्ध्वर्(द्ध) गदापहम् ॥ १,१७१.
नाचनं (लनणं) सगुडं विश्वं पिप्पली वा ससैन्धवा । भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ १,१७१.
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् । दशमूलीकषायं तु सर्पिः सैन्धवसंयुतम् । नस्यमङ्गविभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥ १,१७१.
दध्ना सौवर्चलाजाजीमधूकं नीलमुत्पलम् । पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १,१७१.
वासकस्वरसं पैत्ते गुडूच्या रसमेव वा । जलेनामलकीबीजं कल्कं वाससितामधु ॥ १,१७१.
आमलक्या मधुरसं मूलं कार्पासमेव वा । पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥ १,१७१.
तण्डुलीयकमूलं तु सक्षौद्रे सरसाञ्जनम् । तण्डुलोदकसंपीतं सर्वांश्चासृक्दराञ्जयेत् । कुशमूलं तण्डुलाद्भिः पीतं चासृक्दरं जयेत् ॥ १,१७१.
श्रीगरुडमहापुराणम् १७२ धन्वन्तरिरुवाच । स्त्रीरोगादिचिकित्सां च वक्ष्ये सुश्रुत तच्छृणु । योनिव्यापत्सु भूयिष्टं शस्यते कर्म वातजित् ॥ १,१७२.
वचोपकुञ्चिकाजातीकृष्णावासकसैन्धवम् । अजमोदायवक्षारं चित्रकं शर्करान्वितम् ॥ १,१७२.
पिष्ट्वालोड्य जलाद्यैश्च खादयेद्धृतभर्जितम् । योनिपार्श्वार्तिहृद्रोगगुल्मार्शो विनिवर्तयेत् ॥ १,१७२.
बदरीपत्रसंलेपाद्योनिर्भिन्ना प्रशाम्यति । लोध्रतुम्बीफलालेपाद्योनेर्दार्ढ्यं करोति च ॥ १,१७२.
पञ्चपल्लवपिष्टाह्वमालतीकुसुमैर्घृतम् । रविपक्वमसृग्धारं योनिगन्धविनाशनम् ॥ १,१७२.
सकाञ्जिकं जपापुष्पपुष्पं ज्योतिष्मतीदलम् । दूर्वापिष्टं च संप्राश्य चित्रकं शर्करान्वितम् ॥ १,१७२.
धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत् । सदुग्धा लक्ष्मणा पीता नस्याद्वा पुत्रदा ऋतौ ॥ १,१७२.
दुग्धस्यार्धाढकं चाज्यमश्वगन्धा च पुत्रदा । वन्ध्या पुत्रं लभेत्पीत्वा घृतेन व्योपकेसरम् ॥ १,१७२.
कुशकाशोरुचृकानां मृलैर्गोक्षुरकस्य च । शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ १,१७२.
पाठालाङ्गलिसिंहाम्यमयूरकूटजैः पृथक् । नाभिबस्ति भगालेपात्सुखं नारी प्रसूयते ॥ १,१७२.
सूताया हृच्छिरोबस्तिशूलमर्कन्द (क्वल्ल) संज्ञितम् । यवक्षारं पिबेत्तत्र मस्तु कोष्णोदकेन वा ॥ १,१७२.
दशमूलीकृतः क्ताथः साज्यः मूतिरुजापहः । शातिलण्डुलचूर्णं तु सदुग्धं दुग्धकृद्भवेत् ॥ १,१७२.
विदारी कन्दस्वरसं मूलं कार्पासजं तथा । धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूपरसाशिनी ॥ १,१७२.