वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च । अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ १,१७१.
पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी । श्लेष्माग्निमान्द्यनुत्पथ्यापिप्पलीगुडमोदकः ॥ १,१७१.
पिष्ट्वाजाजीं सधन्याकां घृप्रस्थं विपाचयेत् । कफपित्तारुचिहरं मन्दानलवमिं हरेत् ॥ १,१७१.
(इत्यम्लपित्तचिकित्सा) पिप्पल्यमृतभूनिम्बवासकारिष्टपर्पटैः । खदिरारिष्टकैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १,१७१.
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतयासह । प्रयोक्तव्यं विरेकार्थं वीसर्पज्वरशान्तये ॥ १,१७१.
खादिरात्रिफलारिष्टपटोलामृतवासकैः । क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाम् ॥ १,१७१.
कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः । लशुनानां तु चृर्णस्य घर्षो मशकनाशनः ॥ १,१७१.
चर्मकीलं जरुमणिं मशकांस्तिलकालकान् । उत्कृत्य शस्त्रेण दहेत्क्षागग्निभ्यामशेषतः ॥ १,१७१.
पटोलनीलीलेपः स्याज्जाल (ज्वाला) गर्दभरोगनुत् । गुञ्जाफलैः शृतं तलं भृङ्गराजरसेन तु । कण्ठ (ण्डु) दारुणकृत्कुष्ठवातव्याधिविनाशनम् ॥ १,१७१.
अर्कास्थिमज्जात्रिफलानालीछा भृङ्गराजकम् । जीर्णे पक्वे लौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७१.
क्षीरात्सशर्करसाद्द्विप्रस्थो मधुकात्पले । तैलम्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ १,१७१.
मुखरोगे तु त्रिफलागण्डूषपरिधारणम् । गृहधूम यवक्षारपाठाव्योपरसाञ्जनम् ॥ १,१७१.
तेजोदं त्रिफलालोध्रं चित्रकं चेति चूर्णितम् । सक्षौद्रं धारयेद्वक्त्रे ग्रीवादन्तास्यरोगनुत् ॥ १,१७१.
पटोल निम्बजम्व्वाग्रमालतीनवपल्लवाः । पञ्चपल्लवकः श्रेष्ठः कषयो मुखधावने ॥ १,१७१.
लशुनार्द्रकशिग्रूणां पारुल्या मूलकस्य च । रुदन्त्याश्च रसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥ १,१७१.
तीव्रशूलोत्तरे कर्णे सशब्दे क्लेदवाहिनि । बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेनावचूर्णितम् ॥ १,१७१.
जातीपत्ररसे तैलं पक्वं पूतिककर्णजित् । शुण्ठीतैलं सार्षपं च क्रोष्णं स्यात्कर्णशूलनुत् ॥ १,१७१.
पञ्चमूलिशृतं क्षीरं स्याच्चित्रकहरीतकी । सर्पिर्गुडः षडङ्गश्चयूषः पीनसशान्तये ॥ १,१७१.
अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः । पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥ १,१७१.
धात्रीरसानाञ्च दृशः कोपं हरति पूरणात् । सक्षौद्रः सैन्धवो वापि शिग्रुदार्विरसाञ्जनम् ॥ १,१७१.
हरिद्रादारुसिन्धूत्थपथ्याजनवगौरिकैः । पिष्टैर्दत्तो बहिर्लपो नेत्रव्याधिनिवारकः ॥ १,१७१.
मृतभ्रष्टाभयालेपात्त्रिफला क्षीरसंयुता । शुण्ठीनिम्बदलैः पिष्टैः सुखोष्णैः स्वल्पसैन्धवैः । धार्यश्चक्षुषि संक्षेपाच्छोथकण्डूरुजापहः ॥ १,१७१.
अभयाक्षामृतं चैकद्विचतुर्भागिकं युतम् । मध्वाज्यलीढं क्वाथो वा सर्वनेत्ररुगर्दनम् ॥ १,१७१.
चन्दनत्रिफलापूगपलाशतरुमूलकैः । जलपिष्टैरियं विर्तिरशेषतिमिरापहा ॥ १,१७१.
दध्नातिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्जनम् । त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥ १,१७१.
तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे । पिप्पलीत्रिफला द्राक्षालोहचूर्णं ससैन्धवम् ॥ १,१७१.
भृङ्गराजरसैर्घृष्टं घुटिकाञ्जनमिष्यते । आन्ध्यं सतिमिरं काचं हन्त्यन्यान्नेत्ररोगकान् ॥ १,१७१.
त्रिकटु त्रिफला नक्त सैन्धवं च मनः शिला । रुचकं शङ्खनाभिश्च जातीपुष्पाणि निम्बकम् ॥ १,१७१.
रसाञ्जनं भृङ्गराजं घृतं मधु पयस्तथा । एतत्पिष्ट्वा च वटिका सर्वनेत्ररुगर्दिनी ॥ १,१७१.
दग्धमेरण्डकं मूलं लेपात्काकिकपेषितम् । शिरोऽर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दक (ज) म् ॥ १,१७१.