मनः शिलांमरीचैस्तु तैलं कुष्ठविनाशनम् । सर्वकुष्ठे विलेपोऽयं शिवापञ्चगुडौदनम् ॥ १,१७१.
करञ्जैलगजैः कुष्ठं गोमूत्रेण प्रलेपतः । करवीरोद्वर्तनं च तैलाक्तस्य च कुष्ठहृत् ॥ १,१७१.
हरिद्रा मलयं रास्ना गुडूच्येडगजस्तथा । आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ १,१७१.
मनः शिलाविडङ्गानि वागजी सर्षपास्तथा । करञ्जैर्मूत्रपिष्टोऽयं लेपः कुष्टहरोर्ऽकवत् ॥ १,१७१.
विडङ्गैडवचा कुष्ठनिशासिन्धूत्थसर्षपैः । मूत्राम्लपिष्टो लेपोऽयं दद्रूकुष्टविनाशनः ॥ १,१७१.
प्रपुन्नाटसुबीजानि धात्री सर्जरसः स्नुही । सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥ १,१७१.
आरग्वधस्य पत्राणि आरनालेन पेषयेत् । दद्रूकिट्टिम (भ) कुष्ठानि हन्ति सिध्मानमेव च ॥ १,१७१.
उष्णो पीता वागुजी च कुष्ठजित्क्षीरभोजनः । तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः । वृष्याः सप्त समा मेध्याः कष्ठहाः कामचारिणः ॥ १,१७१.
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् । हन्ति कुष्ठक्रिमिमेहनाडीव्रणभगन्दरान् ॥ १,१७१.
यः खादेदभयारिष्टमरिष्टामलकानिशाः । स जयेत्सर्वकुष्ठानिमासादूर्ध्वं न संशयः ॥ १,१७१.
दह्यमानायुतः कुम्भे मूलगे खदिराङ्कुरः । साक्षधात्रीरसः क्षौद्रो हन्यात्कुष्ठं रसायनम् ॥ १,१७१.
धात्री खदिरयोः क्काथं पीत्वा वागजिसंयुतम् । शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ॥ १,१७१.
पीत्वा भल्लातकं तैलं मासाद्व्याधिं जयेन्नरः । सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ॥ १,१७१.
भावितं मलपूक्वाथैः सोमराजीफलं बहु । कर्षं भक्षेदलवणो ह्यक्षफल्गुशृतं पिबेत् ॥ १,१७१.
हन्ति श्वित्रमसाध्यं च लेपे योज्यापराजिता । वासा शुद्धा च त्रिफला पटोलं च करञ्जकम् ॥ १,१७१.
निम्बाशनं कृष्णवेत्रं क्वाथकल्केन यद्धृतम् । वज्रकं तद्भवेत्कुष्ठं शतवर्षाणि जीवति ॥ १,१७१.
स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम् । कच्छूर्विचर्चिका पामा अभ्यङ्गादेव नश्यति ॥ १,१७१.
द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् । गम्भारिकाचित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत् ॥ १,१७१.
(अथाम्लपित्तचिकित्सा) धात्रीनिम्बफलं तद्वद्गोमूत्रेण च चित्रकम् । वासामृतापर्पटिकानिम्बभूनिम्बमार्करैः (वैः) । त्रिफलाकुलत्थैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥ १,१७१.
फलत्रिकं पटोलं च तिक्तक्वाथः सितायुतः । पीतो यष्टीमधुयुतो ज्वरच्छर्द्यम्लपित्तजित् ॥ १,१७१.
वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च । अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ १,१७१.
पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी । श्लेष्माग्निमान्द्यनुत्पथ्यापिप्पलीगुडमोदकः ॥ १,१७१.
पिष्ट्वाजाजीं सधन्याकां घृप्रस्थं विपाचयेत् । कफपित्तारुचिहरं मन्दानलवमिं हरेत् ॥ १,१७१.
(इत्यम्लपित्तचिकित्सा) पिप्पल्यमृतभूनिम्बवासकारिष्टपर्पटैः । खदिरारिष्टकैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १,१७१.
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतयासह । प्रयोक्तव्यं विरेकार्थं वीसर्पज्वरशान्तये ॥ १,१७१.
खादिरात्रिफलारिष्टपटोलामृतवासकैः । क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाम् ॥ १,१७१.
कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः । लशुनानां तु चृर्णस्य घर्षो मशकनाशनः ॥ १,१७१.
चर्मकीलं जरुमणिं मशकांस्तिलकालकान् । उत्कृत्य शस्त्रेण दहेत्क्षागग्निभ्यामशेषतः ॥ १,१७१.
पटोलनीलीलेपः स्याज्जाल (ज्वाला) गर्दभरोगनुत् । गुञ्जाफलैः शृतं तलं भृङ्गराजरसेन तु । कण्ठ (ण्डु) दारुणकृत्कुष्ठवातव्याधिविनाशनम् ॥ १,१७१.
अर्कास्थिमज्जात्रिफलानालीछा भृङ्गराजकम् । जीर्णे पक्वे लौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७१.