यष्टीमधुकयुक्तेन किञ्चिदुष्णेन सर्पिषा । बुद्ध्वागन्तुव्रणान्वैद्यो घृतक्षौद्रसमन्विताम् ॥ १,१७०.
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम् । क्वाथो वंशत्वगेरण्डश्वदंष्ट्रवनिदाकृतः ॥ १,१७०.
सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्त्रावयेदसृक् । यवकोलकुलत्थानां निःस्नेहेन रसेन वा ॥ १,१७०.
भुञ्जीतान्नं यवाग्वा वा पिवेत्सैन्धवसंयुतम् । करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ १,१७०.
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः । निर्यन्त्रणो विबन्धघ्नो व्रधनगेपणः ॥ १,१७०.
दूर्वास्वरससिद्धं वा तलं कम्पिल्लकेन वा । दार्वोत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ १,१७०.
श्रीगरुडमहापुराणम् १७१ धन्वन्तरिरुवाच । नाडीव्रणादिरोगाणां चिकित्सां शृणु सुश्रुत । नाडीं शस्त्रेण संपाट्य नाजीनां व्रणवत्क्रिया ॥ १,१७१.
गुग्गुलुत्रिफलाव्योपैः समांशैराज्ययोजितैः । नाडीदुष्टव्रणं शूलं भगन्दरमथो जयेत् ॥ १,१७१.
निर्गुण्डीरसतस्तैलं नाडीदुष्टव्रणापहम् । हितं पामामयानां तु पानाभ्यञ्जननावनैः ॥ १,१७१.
गग्गुत्रिफलाकृष्णात्रिपञ्चैकांशयोजिता । घुटि (गुडि) काशोथगुल्मार्शोभगन्दरवतां हिता ॥ १,१७१.
ध्वजमध्ये शिरावेधे विशुद्धिरुपदंशके । पाको रक्ष्यः प्रयत्नेन शिश्रक्षयकरो हि सः ॥ १,१७१.
पटोलनिम्बत्रिफलागुडूचीक्वाथमापिबेत् । सगुग्गुलुं सखदिरमुपदंशो विनश्यति ॥ १,१७१.
दहेत्कटाहे त्रिफलां सामसी (षी) मधसंयुताम् । उपदंशे प्रलेपोऽय सद्यो रोपयते व्रणम् ॥ १,१७१.
त्रिफलानिम्बभूनिम्बकरञ्जखदिरादिभिः । कल्कैः क्वाथैर्घृतं पक्वमुपदंशहरं परम् ॥ १,१७१.
आदौ भग्नं विदित्वा तु सेचयेच्छीतलांबुना । पक्वेनालेपनं कार्यं बन्धनं च कुशान्वितम् ॥ १,१७१.
माषं मांसं तथा सर्पिः क्षीरं यूषः सतीजलः । बृंहणं चान्नपानं स्यात्प्रदेयं भग्नरोगिणे ॥ १,१७१.
रसोनमधुनासाज्यसिताकल्कं समश्नुता । छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् ॥ १,१७१.
अश्वत्थत्रिफलाव्योषाः सवरभिः समीकृतैः । तुल्यो गुग्गुलुना योज्यो भग्नसन्धिप्रसाध (कृत्) कः ॥ १,१७१.
सर्वकुष्ठेषु वमनं रेचनं रक्तमोक्षण । वचावासापटोलानां निम्बस्य कलिनीत्वचः ॥ १,१७१.
कषायो मधुना पीतो वातहृन्मदनान्वितः । विरेचनं प्रयोक्तव्यं त्रिवृत्कर्णफलत्रिकैः ॥ १,१७१.
मनः शिलांमरीचैस्तु तैलं कुष्ठविनाशनम् । सर्वकुष्ठे विलेपोऽयं शिवापञ्चगुडौदनम् ॥ १,१७१.
करञ्जैलगजैः कुष्ठं गोमूत्रेण प्रलेपतः । करवीरोद्वर्तनं च तैलाक्तस्य च कुष्ठहृत् ॥ १,१७१.
हरिद्रा मलयं रास्ना गुडूच्येडगजस्तथा । आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ १,१७१.
मनः शिलाविडङ्गानि वागजी सर्षपास्तथा । करञ्जैर्मूत्रपिष्टोऽयं लेपः कुष्टहरोर्ऽकवत् ॥ १,१७१.
विडङ्गैडवचा कुष्ठनिशासिन्धूत्थसर्षपैः । मूत्राम्लपिष्टो लेपोऽयं दद्रूकुष्टविनाशनः ॥ १,१७१.
प्रपुन्नाटसुबीजानि धात्री सर्जरसः स्नुही । सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥ १,१७१.
आरग्वधस्य पत्राणि आरनालेन पेषयेत् । दद्रूकिट्टिम (भ) कुष्ठानि हन्ति सिध्मानमेव च ॥ १,१७१.
उष्णो पीता वागुजी च कुष्ठजित्क्षीरभोजनः । तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः । वृष्याः सप्त समा मेध्याः कष्ठहाः कामचारिणः ॥ १,१७१.
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् । हन्ति कुष्ठक्रिमिमेहनाडीव्रणभगन्दरान् ॥ १,१७१.
यः खादेदभयारिष्टमरिष्टामलकानिशाः । स जयेत्सर्वकुष्ठानिमासादूर्ध्वं न संशयः ॥ १,१७१.