क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः । कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे । प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥ १,१७०.
कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः । क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥ १,१७०.
बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः । सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥ १,१७०.
त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम् । पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥ १,१७०.
त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः । गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम् । विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ १,१७०.
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः । गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ १,१७०.
हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा । घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥ १,१७०.
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः । वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥ १,१७०.
त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः । कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥ १,१७०.
मूलं नागरमानीतं सक्षीरं हृदयार्तिनुत् । सौवचलं तदर्धन्तु शिवानाञ्च घृतं पिबेत् ॥ १,१७०.
कणापाषाणभेदैर्वा शिलाजतुकचूर्णकम् । तण्डुलीभिर्गुडेनापि मूत्रकृच्छ्रीति जीवति ॥ १,१७०.
अमृतानागरीधात्रीवाजिगन्धात्रिकण्टकाम् । प्रपिबेद्वातरेगार्तः सशूलो मूत्रकृच्छ्रवान् ॥ १,१७०.
सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः । निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ १,१७०.
लवणं त्रिफलाकल्कैर्मूत्राघातहरं स्मृतम् । मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ॥ १,१७०.
क्वाथश्च शिग्रुमूलोत्थः कटूष्णोश्मानिपातनः । सर्वमेहहरोधात्र्या रसःक्षौद्रनिशायुतः । त्रिफलादारुदार्व्यष्टक्वाथः क्षौद्रेण मेहहा ॥ १,१७०.
अस्वप्नं च व्यवायं च व्यायामाश्चिन्तनानि च । स्थौल्यमिच्छन्पपरित्यक्तं क्रमेणाभिप्रवर्धयेत् ॥ १,१७०.
यवश्यामाकभोजी स्यास्थौल्यकृन्मधुवारिणा । उष्णमन्नं समण्डं वा पिबन्कृशतनुर्भवेत् ॥ १,१७०.
सचव्यजीरकं व्योषा हिङ्गुसौवर्चलामलाः । मधुना रक्तवः पीता मेधोघ्ना सर्वदीपनाः ॥ १,१७०.
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च । कल्कैः सिद्ध घृत प्रस्थं सक्षीरं जठरी पिबेत् ॥ १,१७०.
क्रमवृद्ध्या दशाहानि दश पैप्पालिकं दिनम् । वर्धयेत्पयसा सार्धं तथैवापानयेत्पुनः ॥ १,१७०.
क्षीरषष्टिकभोजीस्यादेवं कृष्णसहस्रकम् । बृंहणं मुद्गमायुष्यं प्लीहोदरविनाशनम् ॥ १,१७०.
पुनर्नवाक्वाथकल्कैः सिद्धं शोथहरं घृतम् । गावा मत्रेण संसेव्यं पिप्पली वा पयोऽन्विताः । गुडन वाभयां तुल्यां विश्वं वा शोथरोगिणा ॥ १,१७०.
तैलमेरण्डजं पीत्वा बलासिद्धं पयोऽन्वितम् । आध्मानशूलोपचितामन्त्रवृद्धिञ्जयेन्नरः ॥ १,१७०.
भ्रष्टोरुचकतैलेन कल्कः पथ्यासमुद्भवः । कृष्णसैन्धवसंयुक्तो वद्धिरोगहरः परः ॥ १,१७०.
निर्गुण्डीमूलनस्येन गण्डमाला विनश्यति । स्मुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ॥ १,१७०.
हस्तिकर्णपलाशस्य गलगण्डं तु लेपतः । धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥ १,१७०.
प्रलेपःश्लीपदं हन्ति चिरोत्थमतिदारुणम् । शोभाञ्जनकसिन्धृत्थहिङ्गुं विद्रधिनाशनम् ॥ १,१७०.
शरपुङ्खा मधुयुता यात्सर्स्वव्रणगेपणी । निम्बपत्रस्य वालेपः श्वयथुव्रणगेपणः ॥ १,१७०.
त्रिफला खदिरो दार्वो न्यग्रोधो व्रणशोधनः । सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥ १,१७०.