विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह । आम्रजम्बूकषायं वा पिबोन्माक्षिकसंयुतम् ॥ १,१७०.
छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति । त्रिफला भ्रममूर्छाहृत्पीता सा मधुनापि वा ॥ १,१७०.
पञ्चगव्यं हितं पानादपस्मारग्रहादिनुत् । कूष्माण्डकरसो वाज्यं सयष्टिकं तदर्थकृत् ॥ १,१७०.
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च । पुराणं सेव्यमुन्मादग्रहापस्मारद्घृनुतम् ॥ १,१७०.
अश्वगन्धाकषाये च कल्के क्षीरे चतुर्गुणे । घृतपक्वन्तु वातघ्नं वृष्यं मां साय पुत्रकृत् ॥ १,१७०.
नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितम् । छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ १,१७०.
सगुडाः पञ्च पथ्याश्च कुष्टार्शोवातसादनाः । गडचीस्वरसं कल्कं चूर्णं वा क्वाथमेव वा ॥ १,१७०.
वातरक्तान्तकं कालागुडूचीक्वाथकल्कतः । कुष्ठव्रणादिशमनं शृतमाज्यं सदुग्धकम् ॥ १,१७०.
त्रिफलागुग्गुलुर्वातरक्तमूर्छापहारकः । ऊरुस्तम्भविनाशाय गोमूत्रेण च गुग्गुलुः ॥ १,१७०.
शुण्ठीगोक्षुरकक्वाथः सामवातार्तिशूलनुत् । दशमूलामृतैरण्डरास्नानागरदारुभिः ॥ १,१७०.
क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः । कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे । प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥ १,१७०.
कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः । क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥ १,१७०.
बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः । सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥ १,१७०.
त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम् । पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥ १,१७०.
त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः । गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम् । विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ १,१७०.
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः । गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ १,१७०.
हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा । घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥ १,१७०.
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः । वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥ १,१७०.
त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः । कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥ १,१७०.
मूलं नागरमानीतं सक्षीरं हृदयार्तिनुत् । सौवचलं तदर्धन्तु शिवानाञ्च घृतं पिबेत् ॥ १,१७०.
कणापाषाणभेदैर्वा शिलाजतुकचूर्णकम् । तण्डुलीभिर्गुडेनापि मूत्रकृच्छ्रीति जीवति ॥ १,१७०.
अमृतानागरीधात्रीवाजिगन्धात्रिकण्टकाम् । प्रपिबेद्वातरेगार्तः सशूलो मूत्रकृच्छ्रवान् ॥ १,१७०.
सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः । निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ १,१७०.
लवणं त्रिफलाकल्कैर्मूत्राघातहरं स्मृतम् । मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ॥ १,१७०.
क्वाथश्च शिग्रुमूलोत्थः कटूष्णोश्मानिपातनः । सर्वमेहहरोधात्र्या रसःक्षौद्रनिशायुतः । त्रिफलादारुदार्व्यष्टक्वाथः क्षौद्रेण मेहहा ॥ १,१७०.
अस्वप्नं च व्यवायं च व्यायामाश्चिन्तनानि च । स्थौल्यमिच्छन्पपरित्यक्तं क्रमेणाभिप्रवर्धयेत् ॥ १,१७०.
यवश्यामाकभोजी स्यास्थौल्यकृन्मधुवारिणा । उष्णमन्नं समण्डं वा पिबन्कृशतनुर्भवेत् ॥ १,१७०.
सचव्यजीरकं व्योषा हिङ्गुसौवर्चलामलाः । मधुना रक्तवः पीता मेधोघ्ना सर्वदीपनाः ॥ १,१७०.
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च । कल्कैः सिद्ध घृत प्रस्थं सक्षीरं जठरी पिबेत् ॥ १,१७०.