फलत्रिकामृतासातिक्ताभूनिम्बनिम्बजः । क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ १,१७०.
त्रिवृच्च त्रिफला श्यामा पिप्पली शर्कग मधु । मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥ १,१७०.
वासायां विद्यमानायामाशायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ १,१७०.
आटरूपकमृद्वीकापथ्याक्वाथः सशर्करः । क्षौद्राढ्यः कासनिः श्वासरक्तपित्तनिबर्हणः ॥ १,१७०.
वासारसः खण्डमधुयुतः पीतोऽथरक्तजित् । सल्लकीबदरीजम्बुप्रियालाम्रार्जुनं धवः । पीतं क्षीरञ्च मध्वाढ्यं पृथक्छोणितवारणम् ॥ १,१७०.
समूलफलपत्राया निर्गुण्ड्याः स्वरसैर्घृतम् । सिद्धं पीत्वा क्षयक्षीणी निर्व्यादिर्भाति देववत् ॥ १,१७०.
हरीतकी कणा शुण्ठी मरिचं गुडसंयुतम् । कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे । प्रस्थं सिद्धं घृतं स्याच्च कासनुद्वह्निदापनम् ॥ १,१७०.
कृष्णा धात्री शिता शुण्ठी हक्काघ्नी मधुसंयुता । हिक्काश्वासी पिवेद्भार्ङ्गो सविश्वामुष्णवारिणा ॥ १,१७०.
तैलाक्तं स्वरभेदे वा खादिरं धारयेन्मुखे । पथ्यां पिप्पलिकायुक्तां संयुक्तां नागरेण वा ॥ १,१७०.
विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह । आम्रजम्बूकषायं वा पिबोन्माक्षिकसंयुतम् ॥ १,१७०.
छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति । त्रिफला भ्रममूर्छाहृत्पीता सा मधुनापि वा ॥ १,१७०.
पञ्चगव्यं हितं पानादपस्मारग्रहादिनुत् । कूष्माण्डकरसो वाज्यं सयष्टिकं तदर्थकृत् ॥ १,१७०.
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च । पुराणं सेव्यमुन्मादग्रहापस्मारद्घृनुतम् ॥ १,१७०.
अश्वगन्धाकषाये च कल्के क्षीरे चतुर्गुणे । घृतपक्वन्तु वातघ्नं वृष्यं मां साय पुत्रकृत् ॥ १,१७०.
नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितम् । छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ १,१७०.
सगुडाः पञ्च पथ्याश्च कुष्टार्शोवातसादनाः । गडचीस्वरसं कल्कं चूर्णं वा क्वाथमेव वा ॥ १,१७०.
वातरक्तान्तकं कालागुडूचीक्वाथकल्कतः । कुष्ठव्रणादिशमनं शृतमाज्यं सदुग्धकम् ॥ १,१७०.
त्रिफलागुग्गुलुर्वातरक्तमूर्छापहारकः । ऊरुस्तम्भविनाशाय गोमूत्रेण च गुग्गुलुः ॥ १,१७०.
शुण्ठीगोक्षुरकक्वाथः सामवातार्तिशूलनुत् । दशमूलामृतैरण्डरास्नानागरदारुभिः ॥ १,१७०.
क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः । कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे । प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥ १,१७०.
कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः । क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥ १,१७०.
बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः । सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥ १,१७०.
त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम् । पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥ १,१७०.
त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः । गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम् । विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ १,१७०.
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः । गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ १,१७०.
हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा । घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥ १,१७०.
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः । वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥ १,१७०.
त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः । कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥ १,१७०.