ईषदुष्णसेवनाच्च लघुः सूपः सुसाधितः । स्विन्न निष्पीडितं शाकं हितं स्नेहादिसंस्कृतम् ॥ १,१६९.
दाडिमामलकैर्यूषो वह्निकृद्वातपित्तहा । श्वासकासप्रतिश्यायकफघ्नो मलकैः कृतः ॥ १,१६९.
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः । मुद्गामलकजो ग्राही श्लेष्मपित्तविनाशनः ॥ १,१६९.
सगुडं दधि वातघ्नं सक्तवो रूक्षवातुलाः । घृतपूर्णोऽग्निकारी स्याद्वृष्या गुर्वो च शष्कुली ॥ १,१६९.
बृंहणाः सामिषा भक्ष्यपिष्ट का गुखः स्मृताः । तैलसिद्धाश्च दृष्टिघ्नास्तोयस्विन्नाश्च दुर्जराः ॥ १,१६९.
अत्युष्णा मण्डकाः पथ्याः शीतला गुखो मताः । अनुपानञ्च पानीयं श्रमतृष्णादिनाशनम् ॥ १,१६९.
अन्नपानादिना रक्षा कृत्स्याद्रोगवर्जितः । अनुष्णः शिखिकण्ठाभो विषञ्चैव विवर्णकृत् ॥ १,१६९.
गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनोव्यथा । आघ्राणे चाक्षिरोगः स्यादसाध्यश्च भिषग्वरैः । वेपथुर्जृम्भणाद्यं स्याद्विषस्यैतत्तु लक्षणम् ॥ १,१६९.
श्रीगरुडमहापुराणम् १७० धन्वन्तरिरुवाच । ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः । मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः । शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ १,१७०.
नागरं देवकाष्ठञ्च धान्याकं बृहतीद्वयम् । दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥ १,१७०.
आरग्वधाभयामुस्तातिक्ताग्रन्थिकनिर्मितः । कषायः पाचनः सामे सशूले च ज्वरेहितः ॥ १,१७०.
मधूकसारसिन्धूत्थवचोषणकणाः समाः । श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥ १,१७०.
त्रिवृद्विशालात्रिफलाकटुकारग्वधैः कृतः । सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ॥ १,१७०.
महौषधामृतामुस्तचन्दनोशीरधान्यकैः । क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥ १,१७०.
अपामगजटाकट्यां लोहितैः सप्ततन्तुभिः । बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥ १,१७०.
गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः । तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥ १,१७०.
गुडूच्याः क्वाथकल्काभ्यां विफलावासकस्य च । मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥ १,१७०.
धात्रीशिवाकणावह्निक्वाथः सर्वज्वरान्तकः । ज्वरातिसारहरणमौषधं प्रवदाम्यथ ॥ १,१७०.
पृश्रिपर्णोबलाविल्वनागरोत्पलधान्यकैः । पाठेन्द्रयवभूनिम्बमुस्तपर्पटकैः शृताः । ज्यन्त्याममतीसारं सज्वरं समहौषधाः ॥ १,१७०.
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः । सर्वज्वरहरः क्वथः सर्वातीसारनाशनः ॥ १,१७०.
मुस्तपर्पटकदिव्यशृङ्गवेरशृतं पयः । शालपर्णो पृश्रिपर्णो बृहती कण्टकारिका ॥ १,१७०.
बलाश्वदंष्ट्राबिल्वादि पाठानागरधान्यकम् । एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ १,१७०.
बिल्वचूतास्थिक्वाथश्च खण्डं मध्वतिसारनुत् । अतिसारे हिता तद्वत्कुटजत्वक्कणायुता ॥ १,१७०.
वत्सकातिविषाविश्वकणाकन्दकषायकः । प्रयुक्तश्चामशूलाढ्ये ह्यतीसारे सशोणित ॥ १,१७०.
चिकित्साथ ग्रहण्यास्तुग्रहणी चाग्रिनाशिनी । चित्रकाक्वाथक्लकाभ्यां ग्रहणीघ्नं क्षृतं हविः । गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम् ॥ १,१७०.
सौवर्चलं सैन्धवञ्च विडङ्गौद्भिदमेव च । सामुद्रेण समं पञ्चलवणान्यत्र योजयेत् ॥ १,१७०.
भेषजं शस्त्रक्षाराग्न्यस्त्रिधा वै चार्शसां हरम् । विद्धि तच्चार्शसोघ्नन्तु यद्धि तक्रं नवोद्धृतम् ॥ १,१७०.
गुडूटीं पिप्पलीयुक्तामभयां घृतभर्जिताम् । त्रिवृदर्शोविनाशार्थं भक्षयेदम्ललोणिकाम् ॥ १,१७०.
तिलेक्षुरससंयोगश्चार्शः कुष्ठ विनाशनः । पञ्चकोलं समरिचं सत्र्यूषणमथाग्निकृत् ॥ १,१७०.
हरीतकी भक्ष्यमाणा नागेरण गुडेन वा । सैन्धवोपहिता वापि सातत्येनाग्निदीपनी ॥ १,१७०.